भारतीय जनता पार्टीति दलस्य प्रथमवारस्य विधायक-पदासीना रेखा गुप्ता २०-०२-२०२५ दिनाङ्के दिल्ल्याः रामलीला मैदान इत्यत्र दिल्ल्याः मुख्यमन्त्रित्वेन शपथवचनं स्वीकृतवती । उपराज्यपालः विनयकुमार-सक्सेना तां पदगोपनीयतायाः शपथं आकारितवान्। एततपूर्व गतदिने सायंकाले भाजपादलस्य विधायकदलीयोपवेशने श्रीमती रेखा गुप्ता दिल्ल्याः मुख्यमन्त्रिरूपेण सर्वसम्मत्या चिता । मुख्यमन्त्रिपदाय स्वीय- नामोद्घोषणानन्तरं श्रीमती रेखा गुप्ता राजनिवासे उपराज्यपालेन ‘विनयकुमार सक्सेना’ इत्यमुना साकं मेलनं कृतवती ।
मुख्यमन्त्रिणा सह षड् मन्त्रिमण्डलसदस्याः प्रवेश-साहिब-सिंहः अशीष-सूदः, मनजिन्दर-सिंह- सिरसा, रवीन्द्र-इन्द्राज सिंह, कपिल-मिश्रः पञ्कज कुमार सिंहः च शपथवचनं स्वीकृतवन्तः।
भाजपादलस्य-सुषमा स्वराज इत्येतस्याः, काङ्ग्रेसगलस्य शीला दीक्षित इत्यस्याः तथा च आम- आदमी-पार्टीति दलस्य आतिशी इत्येतस्याः अनन्तरं रेखा गुप्ता भाजपादलस्य द्वितीया तथा च दिल्ल्यां चतुर्थमुख्यमन्त्री सञ्जाता। सद्यः एव सम्पन्ने दिल्लीविधानसभा-निर्वाचने रेखा-गुप्ता इत्यसौ शालीमार-बाग-विधानसभासनात् विजयम् अधिगतवती । एषा द्विनवत्यधिक-नवदश- शततमे वर्षे दिल्ली-विश्वविद्यालयस्य-दौलत-राम-महाविद्यालये अखिल-भारतीय-विद्यार्थी- परिषदा स्व-राजनैतिक यात्राम् आरब्धवती। असौ षण्णवत्यधिक-नवदश-शततमे वर्षे दिल्ली- विश्वविद्यालय-छात्रसङ्घस्य अध्यक्षा रूपेण अपि चयनिता।
एषा दिल्ल्यां भाजपामहिलामोर्चा इत्येतस्याः महासचिवरूपेण अपि कार्यम् अकरोत्। तत्रैव मन्त्री कपिलमिश्रः अवदत् यत् अद्य ऐतिहासिकः दिवसो वर्तते तथा च भाजपा इत्येतत् दलं प्रधानमन्त्रिणः नरेन्द्रमोदिनः विकास नीतीः दिल्ल्यां प्रवर्तयिष्यति।
दिल्ल्याः मुख्यमन्त्री रेखा गुप्ता इत्यसै अद्य दिल्ली-सचिवालये कार्यभारं सम्भालितवती। मुख्यसचिवः धर्मेन्द्र-कुमारः अन्य-वरिष्ठाधिकारिणः च तस्याः स्वागतं कृतवन्तः। कार्यभारं सम्भालनानन्तरं-वार्ताहरान् सम्बोधयन्ती रेखा-गुप्ता इत्येषा उक्तवती यत् दिल्ली प्रशासनं विकसित-दिल्ल्याः दिशि निरन्तरं कार्यं करोति ।
अवधेयास्पदं यत् श्रीमती रेखा गुप्ता दिल्ली- विधानसभानिर्वाचनेषु शालीमार बाग इति आसन्देन निजिता ।
तया सर्वप्रथमं ‘अखिल भारतीय विद्यार्थी परिषद् इत्येतेन सह स्वीया राजनीतिकी यात्रा समारब्धा। दिल्ली विश्वविद्यालय-छात्र संघस्यापि अध्यक्षा आसीत् । दिल्ली- भाजपा-महिला मोर्चा इत्यत्रापि महासचिवरूपेण तया कार्याचरणं समनुष्ठितम्।
परवेशवर्मा अन्यैः पञ्चभिः नूतनैः मन्त्रिमण्डलमन्त्रिभिः सह दिल्लीनगरस्य मन्त्रिमण्डलमन्त्रीरूपेण शपथं कृतवान् । भारतीयजनतापक्षस्य अन्ये नेतारः ये मन्त्रीरूपेण शपथं गृहीतवन्तः तेषु कपिलमिश्रः, मञ्जिन्दरसिंह सिरसा, रविन्दर इन्द्रजसिंहः, आशीषसूदः, पंकजकुमारसिंहः च सन्ति । शपथग्रहणात् पूर्वं वर्मा दलस्य प्रति प्रतिबद्धतां पुनः पुष्टिं कृतवान् ।
भाजपायाः कृते दिल्लीनगरे विजयः यद्यपि निर्णायकः तथापि सुलभः न अभवत्। आपपक्षस्य “रेवड़ी-प्रथा” प्रतिकारार्थं दलात् — केन्द्रीय-स्थानीय-स्तरयोः — निरन्तरप्रयत्नः गृहीतवान् ।











