शिवरात्रि महापर्वणः हार्दिकाः शुभाशयाः।
माघमासस्य कृष्णपक्षस्य चतुर्दश्यां तिथौ आचर्यते महाशिवरात्रिपर्व । प्रयागपुष्करः यथा तीर्थराजः इति उच्यते तथैव महाशिवरात्रिः व्रतराजः इति उच्यते ।शिवरात्रि महापर्वस्य हार्दिक्यः शुभाषयाः। एतत् पर्व यद्यपि शैवाणां परमपवित्रं तथापि अन्यैः अपि आचरणीयम् अन्यथा तेषां पूजाफलं नश्यति इति वदन्ति शास्त्राणि ।
शिवरात्र्याचरणं स्यात् शिवस्य प्रियं यथा शिवस्य ध्यानानन्दः आत्मगुणसम्पत्तिः अत्यन्तं प्रियौ स्तः । सर्वभूतेषु दया, निरसूया, शुचित्वम्, अनायासः, क्षमागुणः, अकार्पण्यभावः, मङ्गलं, दुराशां विना जीवनम् इत्येतानि एव अष्ट आत्मगुणाः । अहिंसा, सत्यम्, अक्रोधः, ब्रह्मचर्यं च अस्मिन् व्रते अपि आचरणीयम् ।
एषा शिवरात्रिः सर्वयज्ञेषु उत्तमोत्तमा । दान-यज्ञ-तपः-तीर्थ-व्रत-कर्मादीनि शिवरात्रिव्रतस्य कोटिषु एकभागोपि न भवन्ति । कृष्णाष्टमी इव शिवरात्रिः अपि नित्यव्रतमपि काम्यव्रतमपि । माघफाल्गुनयोर्मध्ये चतुर्दश्याम् उपवासं कृत्वा जागरणम् आचरन्ति ये तेभ्यः रुद्रः प्रसन्नः सन् भुक्तिं मुक्तिं च ददाति इति वदति गरुडपुरणम् । शिवस्य शरीरं ज्योतिर्मयम् । चन्द्रसूर्याग्नयः एव तस्य त्रीणि नेत्राणि । शिरसि विद्यमानः चन्द्रः मनसः, संयमस्य च प्रतीकः । जटासु विद्यमाना गङ्गा अमृतत्वसूचिका । कण्ठे विद्यमानः सर्पः जीविनां देवाश्रयस्य प्रतीकः । गजचर्म अहङ्कारनिग्रहं, व्याघ्राम्बरं विषयदमनं च द्योतयतः । विभूतिः परिशुद्धतां भालनेत्रं ज्ञानं च प्रतिपादयतः । अस्य माघमासस्य शुक्लपक्षस्य चतुर्दश्यां तिथौ एव शिवः आनन्देन ताण्डवनृत्यम् अकरोत् इति । क्षीरसागरमथनावसरे उद्भूतं विषं पीत्वा नीलकण्ठः सञ्जातः अस्मिन् एव दिने इति । शिवस्य जन्म अपि एतद्दिने एव अभवत् इति वदन्ति पुराणानि ।











