वार्ताहर:- प्रवेशकुमारशुक्ल:, लखनऊ
उत्तरप्रदेशसंस्कृतसंस्थानेन सञ्चाल्यते “गृहे गृहे संस्कृमित्योजनान्तर्गते दशदिवसीयं सरलसंस्कृतभाषाशिक्षकप्रशिक्षणकार्यक्रमस्य प्रारम्भ: ०२/०३/२५ त: ११/०३/२५ पर्यन्तमेतत् कार्यक्रम: समायोजयिष्यते । कार्यक्रमस्यास्य समुद्घाटनं शनिवासरे सायंकाले अनिष्ठितम् उत्तरप्रदेश-सर्वकारस्य सहयोगेन सम्पूर्णोत्तरप्रदेशे उत्तरप्रदेशसंस्कृतसंस्थानेन द्वारा विविधा: योजना: प्रचाल्यन्ते। उद्घाटनसत्रे प्रप्रथमं जगद्व्यापनीं देवीं सरस्वतीं समर्च्य संस्थानस्य स्वागतगीतं प्रशिक्षिका कृतिमहोदया गीतवती, वैदिकमंगलाचरणं अमितपाण्डेय: , लौकिकमंगलाशासनं दीपिकामिश्रा कृतवती,गृहे गृहे संस्कृतमिति योजनाया: समन्वयका: डा० अनिलगौतमवर्या: आगतानामतिथीनां स्वागतभाषणेन माल्यार्पणेन च स्वागतम् कृतवन्त: ।
संस्थानगीतं प्रशिक्षिका: आस्थाशुक्लामहोदया: कारितवत्य: , संस्थानस्य निदेशका: विनयश्रीवास्तव-महोदया: स्वाशीर्वचनै: प्रशिक्षुकान् प्रचोदितवन्त:। प्रशिक्षणसमन्वयक: धीरजमैठाणीमहोदय: कार्यक्रमस्योद्देश्यं किमिति सर्वान् बोधितवन्त:। आध्यक्षीयपदमलड्कृता: संस्थानस्य प्रशासनिकाधिकारिण: डा० जगदानन्दझावर्या: अध्यक्षीयमुद्बोधनं प्रदत्तवन्त: । धन्यवादज्ञापनं योजना प्रभारी भगवानसिंह-चौहानमहोदय: ज्ञापितम्। नटीवत्कुशलमंचसंचालनं प्रशिक्षणसमन्वयिका: राधाशर्मामहोदया: कृतवत्य:। अन्तिमे समुद्घाटनसत्रस्य सम्पूर्ति: शान्तिमन्त्रेण प्रशिक्षु: नैंसगौतममहोदया कारितवती।











