वार्ताहरः – आचार्यः विशालप्रसादभट्टः, अनन्तपुरम् , आन्ध्रप्रदेशः
04 मार्च 2025 मङ्गलवासरे आन्ध्रप्रदेशस्य अनन्तपुरस्थे के. एस. एन. महिला – डिग्री – कलाशालायां
केन्द्रीयसंस्कृतविश्वविद्यालयेन सञ्चालितस्य संस्कृताध्ययनकेन्द्रस्य समुद्घाटनकार्यक्रमः प्रमाणपत्रवितरणं पुस्तकवितरणञ्च सुसम्पन्नम्।
तत्रादौ कार्यक्रमातिथिभिः शारदासमर्चनपुरस्सरं दीपं प्रज्ज्वाल्य वैदिकमङ्गलाचरणेन कार्यक्रमस्य शुभारम्भः विहितः। तदनु केन्द्रच्छात्रा अमृता सरस्वती- वन्दनां प्रस्तुतवती। पश्चाच्च केन्द्रच्छात्राः सौम्या, गौतमी,श्रीकीर्तना च सम्भूय ध्येयमन्त्रं प्रस्तुतवत्यः। अनन्तरं श्रीकीर्तना राष्ट्रसेवनकार्यमेतत् देवपूजनकार्यमेव इति वैयक्तिकं सुमधुरं संस्कृतगीतं गीतवती। तदनु अरुणा, चन्दु , नागमणिश्च इत्येताः केन्द्रच्छात्राः संस्कृतभाषाप्रमाणपत्रीयपाठ्यक्रमकक्षायाः अनुभवं प्रकटितवत्यः। आंग्लविषयाध्यापिका केन्द्राधिकारिणी च सर्वेषाम् अतिथीनां परिचयपुरस्सरं स्वागतं कृतवती। प्रास्ताविकोद्बोधने केन्द्रशिक्षकेण आचार्यविशालप्रसादभट्टेन केन्द्रीयसंस्कृतविश्वविद्यालयस्य संस्कृताध्ययनकेन्द्रस्य च परिचयं विधाय वर्षद्वयस्य समग्रमपि वृत्तं प्रस्तुतम्।
तत्रावसरेsस्मिन् कार्यक्रमस्य प्रमुखातिथिः श्रीसत्यसाई- इन्स्टिट्यूट्-ऑफ – हायर- लर्निंग अनन्तपुरम् इत्यस्य सेवानिवृत्ता संस्कृतविभागाध्यक्षा डॉ० प्रफुल्लामहोदया स्वीये भाषणे संस्कृतस्य वैज्ञानिकं सांस्कृतिकं च महत्त्वं सविस्तरं प्रोक्तवती। डॉ० प्रफुल्लामहोदयया भारतीयज्ञानपरम्परायाः वैशिष्ट्यं सविस्तरं प्रतिपाद्य संस्कृताध्ययनाय छात्राः भृशं अभिनन्दिताः । तदनु विशिष्टातिथिः कलाशालायाः उपप्राचार्यः डॉ० लक्ष्मीरङ्गैय्यावर्यः छात्राः संस्कृताध्ययनाय सम्प्रेरयत्। तेनोक्तम् यत् संस्कृतं भारतीयभाषाणां जननी वर्तते। अतः संस्कृताध्ययनं सर्वाभिः अवश्यमेव करणीयम्। कार्यक्रमस्यास्य अध्यक्षा कलाशालायाः प्राचार्या डॉ० सत्यलतामहोदया स्वीये अध्यक्षीयभाषणे सर्वाभ्यः छात्राभ्यः शुभकामनाः समर्प्य अभिनन्दितवती , तदनन्तरं मञ्चस्थाथिभिः अध्येत्रीभ्यः दीक्षापुस्तकानि प्रमाणपत्राणि च प्रदत्तानि। अन्ते धन्यवादज्ञापनपुरस्सरं शान्तिमन्त्रेण कार्यक्रमस्य सम्पूर्तिः अभवत्। अवसरेsस्मिन् मुक्तश्रीः, श्रीविद्या इत्यादयः उपपञ्चाशत् छात्राः कार्यक्रमे समुपस्थिताः आसन्।











