धर्मगुप्तः

चन्द्रवंशीयः राजा धर्मगुप्तः कदाचित् मृगयार्थम् अरण्यं गतवान् आसीत् । सायङ्कालपर्यन्तम् अपि
‘मृगयायां नितरां लीनः राजा अज्ञाततया एव अङ्गरक्षकेभ्यः दूरं गतः अभवत् । अल्पे एव काले अन्धकारः प्रसृतः । प्रतिगमनमार्गम् अजानन् राजा रात्रिम् अरण्ये एव यापयितुम् इच्छन् क्रूरजन्तुभ्यः आत्मनः रक्षणार्थम् एकं वृक्षम् आरूढवान् ।
राज्ञः आरोहणात् पूर्वम् एव कश्चन भल्लूकः तं वृक्षम् आरूढवान् आसीत् । सः धर्मगुप्तं दृष्ट्वा अवदत् – “राजन् ! अद्य आवाभ्यां सिहांत् आत्मा रक्षणीयः अस्ति । भवान् नितरां श्रान्तः अस्ति । अतः मध्यरात्रपर्यन्तं भवान् निद्रां करोतु । तत्समये अहं जागरितः सन् भवतः रक्षणं करिष्यामि । ततः भवता उत्थाय प्रातःकालपर्यन्तं मम रक्षणं करणीयम् । एतत् अनुमतं वा भवतः ?” इति ।
राजा एतत् अङ्गीकृतवान् । ततः सः शाखाम् आश्रित्य निद्रां कृतवान् ।
किञ्चित्कालानन्तरं तत्र एकः सिंहः आगतः । सः वृक्षस्य ऊर्ध्वभागं पश्यन् भल्लूकम् उद्दिश्य – “मित्र ! भवान् तं मानवं पातयतु । तस्य खादनेन अहं मम बुभुक्षां निवारयामि । भवन्तं न पीड्यामि च” इति अवदत् ।
भल्लूकेन एषः प्रस्तावः न अङ्गीकृतः । सिंहः ततः अगच्छत् । अर्धरात्रसमथै राजा जागरितः । सन्ध्यनुगुणं भल्लूकः निद्राम् अकरोत् । अल्पे एव काले सिंहः पुनः अपि तत्र आगत्य – “अयि, मानव ! भवान् तं भल्लूकम् अधः पातयति चेत् अहं भवन्तं न पीडयिष्यामि’ इति अवदत् ।
अनन्तरक्षणे एव राजा भल्लूकम् अधः पातितवान् । झटिति जागरणं प्राप्तवान् भल्लूकः कथञ्चित् शाखग्रहणेन
भूमौ पतनं निवार्य – “अये राजन्, कृतघ्न ! विश्वासाद्रोहं कृतवान् भवान् उन्मत्ततां प्राप्नोतु” इति अशपत् । ततः धर्मगुप्तः उन्मत्तः सन् अनेकानि कष्टानि अनुभूतवान् । दीर्घकालानन्तरं सः पश्चात्तापम् अनुभूय जैमिनि-
महर्षेः कृपापात्रतां प्राप्य तस्य सूचनायाः अनुगुणं तीर्थस्नानं कृत्वा शापात् विमुक्तः अभवत् । कृतघ्नतातः अधिकं पापम् अन्यत् नास्ति इत्येतां नीतिं बोधयति एषा धर्मगुप्तस्य कथा ।