उत्तरप्रदेशसंस्कृतसंस्थाने प्रचलनस्ति संस्कृतशिक्षकप्रशिक्षणम्

वार्ताहर:- प्रवेशकुमारशुक्ल:, लखनऊ

फाल्गुनशुक्लद्वितीयाशनिवासरत: फाल्गुनशुक्लैकादशीसोमवासरम्यावत् प्रचलिस्यति प्रशिक्षणमेतत्। अये! सुरभारतीसमुपासका: हर्षोल्लासस्यविषयोSयं यत्
उत्तरप्रदेशसंस्कृतसंस्थानेन सञ्चालितायाः गृहे गृहे संस्कृतमिति योजनायाः अन्तर्गते दशदिवसीयावासीयसरलसंस्कृतभाषाशिक्षणप्रशिक्षणे प्रशिक्षणप्रशिक्षुणां कृते विविधोद्बोधनसत्रमायोज्यते । अस्मिन्नेवक्रमे गुरुवासरे आयोजितमुद्बोधनसत्रे प्रप्रथमं वाग्देवीं समर्च्य संस्थानगीतिका गीतवती आस्थाशुक्लामहोदया । आगतानामाताथिनां स्वागतं स्वागतभाषणेन सत्यम्-मिश्रमहोदय: कृतवान् । मुख्यातिथिरूपेणसमागता: केन्द्रीयसंस्कृतविश्वविद्यालयस्यानौपचारिकशिकणप्रमुखा: सन्ति ।
श्रीमान् सुधिष्ठकुमारमिश्रमहोदया: उक्तं यत् प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते अत: अस्या: “गृहे गृहे संस्कृतम्” इति योजनाया: अपि कानिचन् उद्देश्यानि सन्ति, मिश्रवर्या: संस्कृतभाषा एवं एतादृशी भाषा विद्यते यया सर्वस्या: समस्याया: अपसारणं कर्तुं शक्नुम: “क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे” महतोत्साहेन कार्याणि सम्पादनीयानि भवन्ति।
शिक्षणप्रशिक्षणञ्चैकाकला विद्यते । न केवलं प्राचीनकाले एवं संस्कृतं सर्वत्रासीत् साम्प्रतमपि सर्वत्र दृश्यते यतोहि “संस्कृते सकलं ज्ञानं संस्कृते सकला कला” इति सर्वान् प्रशिक्षुकान् उद्बोधितवन्त:। श्रीमहेन्द्रमिश्रमहोदय: तकनीकीव्यवस्थानिर्हन्त: आसन् । संस्थानस्य निदेशका: विनयश्रीवास्तवमहोदया: प्रशिक्षणसमन्वयका: धीरजमैठाणी, समन्वयका: डा० अनिलगौतमवर्या प्रशिक्षणसमन्वयिका राधाशर्मा, योजनाप्रभारी भगवानसिंहचौहानमहोदय: डा० जगदानन्दझा,दिव्यरञ्जनमहोदया: प्रभृतया: मान्या: उपस्तिता: आसन्।
सत्रसञ्चालनं कृतवत्य: निपुणसंचालिका: कृतिकृष्णामहोदया: । सर्वेषामागतानामतिथिनामधिकारीणाञ्च धन्यतावाकं श्रीराजनदूबेवर्या: प्रदत्तवन्त:। अन्तिमे शान्तिमत्रेण सत्रस्य समापनमभवत्।