नवदिल्ल्यां दुग्धोत्पाद क्षेत्रे सुस्थिरता सम्माव्यक्षेत्रयोः कार्यशालायाः उद्घाटनं कुर्वन् केन्द्रीय-सहकारितामन्त्री श्री अमितशाहः कथितवान् यत् दुग्धोत्पादक्षेत्रं देशस्य पोषणस्य अपि परिपालनं करोति। श्री अमितशाहः उक्तवान् यत् दुग्धोत्पादक्षेत्रं न केवलं देशस्य विकासे योगदानं ददाति अपितु ग्रामीणविकासस्य लघुकृषकाणां च समृद्धौ अपि महत्वपूर्ण योगदानं ददाति।
सहकारितामन्त्री अवदत् यत् श्वेत-क्रांति-द्वितीय इत्येतस्मै दुग्धोत्पदक्षेत्रे सुस्थिरता महत्वपूर्णा वर्तते। श्रीशाहेन देशस्य अशीतिप्रतिशत-जनपदेषु दुग्धोत्पादसङ्घस्य निर्माणाय बलं प्रदत्तम्। कार्यशालायां पर्यावरणेन सह आर्थिकविकासं सुनिश्चेतुं दुग्धोत्पादक्षेत्रं संवर्धनोद्देश्येन च सहकारितामन्त्रालयस्य पशुपालन-दुग्धोत्पाद-मत्स्यपालन-मन्त्रालयस्य च नीतिषु उपक्रमेषु च ध्यानं प्रदास्यते। अस्मिन् अवसरे केन्द्रीयमत्स्यपालन-पशुपालन-दुग्धोत्पाद-मन्त्री श्री राजीव-रञ्जन-सिंहः उक्तवान् यत् विगतदशवर्षेषु देशे दुग्धोत्पादने त्रिषष्टि- प्रतिशताधिकं वृद्धिः जाता। कार्यशालावधौ नैकेषु राज्येषु जैविकेन्धन-संयंत्रस्य स्थापनाय सहमतिपत्राणि हस्ताक्षरितानि।











