अमेरिकायाः व्यापारनीत्याः पारस्परिक प्रशुल्कम्

अमेरिकायाः राष्ट्रपतिः डोनाल्ड ट्रम्पः स्वप्रशासनस्य व्यापारनीत्याः सुदृढ-दृष्टिकोणं प्रदर्शयन् अत्यधिकं टैरिफ इति प्रशुल्कं विरुध्य यूरोपीय-सङ्घस्य, चीनस्य, ब्राजीलस्य, भारतस्य, दक्षिण-कोरियायाः अन्येषां च देशानाम् आलोचनां कृत्वा अप्रैलमासस्य द्वितीय दिनाङ्कात् पारस्परिक-प्रशुल्कस्य कार्यान्वयनम् उद्घोषितवान् । कांग्रेस् इत्यस्य एकस्मिन् संयुक्तसत्रे स्वकीये उद्घाटन-भाषणे सः अकथयत् यत् एतैः राष्ट्रः अस्मासु यादृशः प्रशुल्कः स्थाप्यते, तादृश एव अस्माभिः तेषु स्थाप्यते । ट्रम्पः अवोचत् यत्, अन्यैः देशैः दशकेभ्यः अमेरिकां विरुध्य प्रशुल्कम् उपयुज्यते, अधुना तान् देशान् विरुध्य प्रशुल्क-प्रयोगस्य समयः अमेरिकायाः अस्ति । सामान्यतः, यूरोपीयसङ्घ-चीन-ब्राजील-भारत-मैक्सिको-कनाडा चेत्यादिभिः सह अन्यराष्ट्राणि अमेरिकायाः अत्यधिकं प्रशुल्कं आहरन्ति, यदनुचितम् अस्ति । असौ वस्तूनां स्वदेशे विनिर्माणस्य प्रतिबद्धतां समर्थयन् प्रोक्तवान् यत् अमेरिकायामेव वस्तूनाम् उत्पादनेन एव प्रशुल्के न्यूनताम् आनेतुम् शक्यते । सः स्पष्टीकृतवान् यत् वरिष्ठ-नागरिकाः सामाजिक-सुरक्षायाः लाभेषु कीदृशमपि प्रशुल्कं न दास्यन्ति । सः वरिष्ठ-नागरिकान् आश्वासितवान् यत् ते प्रशासनेन प्रदत्तान् सामाजिक-सुरक्षा-लाभान् प्रशुल्क-रहितं उपभोक्तुं शक्नुवन्ति ।