वार्ताहरः- डॉ.दिनेश चौबे, उज्जयिनी
भारतीयभाषासमितिः, उच्चशिक्षामन्त्रालयः, भारतसर्वकारः, श्रीलालबहादुरशास्त्री राष्ट्रियसंस्कृतविश्वविद्यालयः, नवदिल्ली, तथा च शिक्षाशास्त्रविभागः, महर्षिपाणिनीसंस्कृतवैदिकविश्वविद्यालयः, उज्जयिनी इत्येताषां संयुक्ताश्रयेन भारतीयभाषानुवादकौशल
संवर्धन विषयाधारिता पञ्चदिवसीया राष्ट्रियकार्यशाला ०९ मार्च २०२५ तमे दिनाङ्के सम्पन्नतामगात्। मुख्यातिथिः तिरूपतिस्थ श्रीवेङ्कटेश्वरवैदिकविश्वविद्यालयस्य मान्यकुलपतिः प्रो.राणी सदाशिवमूर्तिवर्य: उक्तवान् यत् व्यावहारिकं साहित्यिकं सांस्कृतिकं च वातावरणं अवलोक्य अनुवादः करणीयः। तदतिरिक्तं रामायणादिग्रन्थानां निरन्तरं अध्ययनं करणीयं येन अनुवादस्य भाव: स्वयमेव अवगम्यते। अनुवाद: सर्वदा सत्यस्य अन्वेषणार्थं करणीयम्। सभायाः अध्यक्षः माननीय: कुलगुरुः प्रो.विजयकुमारसीजी महोदयेन उक्तं यत् अस्माकं कार्यशालायाः क्रमः सत्यस्य अन्वेषणात् सत्यस्य प्राप्तिपर्यन्तं आसीत्। सर्वासु भाषासु यत साहित्यं प्राप्यते तस्य सर्वस्य अनुवाद: स्व भाषायां कर्तव्य: अनेन अस्माकम् उपभाषाणां संरक्षण प्रचार प्रसारोsपि भवति।
अतिथिपरिचय: प्रतिवेदनं च शिक्षाशास्त्रविभागाध्यक्षा कार्यशालासमन्वयिका च डॉ. पूजा उपाध्यायमहोदया प्रस्तुतवती प्रतिवेदने उक्ता च यत् देशस्य विभिन्नसंस्थानां पञ्चाशताधिकाः प्रतिभागिनः कार्यशालायाम् अनुवादपद्धतिकौशलस्य प्रशिक्षणं प्राप्तवन्तः। अनेन भाषानुवादस्य प्रवर्धनं भविष्यति, अस्मिन् अवसरे हिन्दी-आङ्ग्ल-अनुवादेन सह प्रतिभागिभिः निर्मितं सुभाषितनिधि-नामकं पुस्तकमपि विमोचितम् । सत्रे कुलसचिव: प्रो.दिलीप सोनी, विभागसमन्वयक: डॉ. तुलसीदासपरोहा सहितेन विभिन्नराज्यस्य अध्यापका: विभागाध्यक्ष:, प्राध्यापक:, छात्र: एवं च प्रतिभागिनः उपस्थिताः आसन्। संचालनं डॉ. पूजा गौर आभार प्रदर्शनञ्च वेदांशुगौतम: कृतवान्।











