राषट्रपति-द्रौपदी मुर्मु शनिवासरे नवदिल्ली नगरे अन्तर्राष्ट्रिय-महिला-दिवसस्य उपलक्षये राषट्रया-संगोषठ्याः उद्घाटनं कृतवती । एषा संगोष्ठी नारी- शक्त्या विकसित-भारतम इत्याखये विषये महिला-बाल-विकास-मंत्रालय द्वारा आयोजिता।
अन्तर्राष्ट्रिय-महिला-दिवसः अखिलेऽपि विश्वे मार्च मासस्य अष्ट दिनाङ्के अमान्यते । अस्मिन् दिवसे राष्ट्रीया, जातीया भाविकी,सान्सकृतिकी, आर्थिकी राजनीतिकी चेत्येभ्यः सिमभ्यः अवलन्घ्य महिलायाः उपलब्धीनां उतसवः अमान्यते। ऐषमः वर्षस्य अन्तर्राष्ट्रिय-महिला-दिवसस्य विषयः सर्वेभ्यः महिलाभ्यः बालिकाभ्यः अधिकाराः समानताः सशक्तीकरणं च । प्रधानमन्त्री नरेन्द्रमोदी अन्तर्राष्ट्रिय-महिला-दिवसस्य पूर्व स्वकीये नमो ऐप इत्याखये पटले स्वकीयायाः जीवनयात्रायाः विभिन्नान् प्रेरकप्रसङ्गान प्रेषकाय महिलाः समाहूतवान् अन्तर्राष्ट्रिय-महिला-दिवसस्य विषये महिला-बाल-विकास मन्त्री अन्नपूर्णादेवी उक्तवती यत् अयम दिवसः महिलानां बहुमुखी विकासाय विघ्नानां उपशमनाय सुअवसरम् प्रदीयते।











