अस्माभिः स्वभाषायां लेखने बलं दातव्यं तदा एव क्षेत्रीयभाषासु अनुवादस्य प्रवृत्तिः वर्धिष्यते- प्रो. विरूपाक्षजड्डीपाल:

पाणिनिसंस्कृतविश्वविद्यालये पंचदिवसीयभारतीयभाषानुवाद कार्यशालायाः उद्घाटनम् ।

वार्ताहर: – डॉ.दिनेश चौबे, उज्जयिनी

पञ्चदिवसात्मिकाया: भारतीयभाषानुवादकौशलसंवर्धन राष्ट्रियकार्यशालायाः शुभारम्भः मार्चमासस्य पञ्चतमे दिनाङ्के उज्जयिनीस्थ महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालये भारतीयभाषासमित्याः उच्चशिक्षामन्त्रालयस्य भारतसर्वकारस्य एवञ्च श्रीलालबहादुरशास्त्रीराष्ट्रीयसंस्कृतविश्वविद्यालयस्य नवदेहली इत्यस्य च संयुक्ताश्रयेण अभवत्। मुख्यातिथिः, महर्षिसान्दिपनि राष्ट्रियवेदविद्याप्रतिष्ठानस्य सचिवः प्रो.विरूपाक्षजड्डीपालमहोदय: उक्तवान् यत् स्वभाषायां लेखनेन धर्मसंस्कृति: इतिहास इत्यादीनां विषयानां संरक्षणं भवति अतः स्वभाषायां लेखने महत्त्वं दातव्यं तदा एव प्रादेशिकभाषासु अनुवादस्य प्रवृत्तिः वर्धिष्यते। भाषासमृद्ध्या सह अस्माकं साहित्यं व्यापकरूपेण अनूदितं पठनयोग्य: च भविष्यति। सारस्वतातिथिः विक्रमविश्वविद्यालयस्य संस्कृतविभागस्य पूर्वप्रमुखः प्रो. केदारनारायणजोशीमहोदयः उक्तवान् यत् अनुवादेन अर्थसङ्कोचः अर्थविस्तारः अथ च अर्थादेशः च भवति। अतः अनुवादकाले विशेषं ध्यानं आवश्यकम् । अनुवादक: च अनेकभाषायाः ज्ञाता स्यात् संस्कृतसाहित्यं विश्वस्य समृद्धतमं साहित्यम् अस्ति ।
सभायाः अध्यक्षः माननीय: कुलगुरु: प्रो.विजयकुमारसीजी महोदय: उक्तवान् यत् देशे उत्तमानुवादकानां महती आवश्यकता विद्यते। ये बहव: भाषाः जानन्ति तेषां कृते अनेके रोजगारस्य अवसराः उपलभ्यन्ते ये भाषाविषये, विषयविशेषज्ञाः सन्ति ते उत्तमाः अनुवादकाः भवितुमर्हन्ति । यस्मिन् संस्कृतज्ञानां कृते अनेकाः अवसराः सन्ति। प्रस्तावना अतिथिपरिचयः च : शिक्षाशास्त्र विभागस्य प्रमुखा कार्यशाला संयोजिका च डॉ. पूजा उपाध्याय: प्रस्तुतवती। धन्यवादज्ञापनं कुलसचिव: प्रो.दिलीपसोनीमहोदय: सञ्चालनञ्च विश्वामित्रराय: कृतवान् । कार्यक्रमे विभागाध्यक्षाः, प्राध्यापकाः, छात्राः, विभिन्नराज्येभ्यः समागता: प्रतिभागिनः च उपस्थिताः आसन्।