केन्द्रीययुव-कार्यक्रम-खेलमन्त्री डा. मनसुख-मण्डाविया मार्च मासस्य विन्शति दिनाङ्के अपराले नवदिल्ल्याम् इन्दिरा-गान्धी-क्रीडाङ्गणे खेलो-इण्डिया-पैरा-गेम्स् इत्यस्य द्वितीय-संस्करणस्य उद्घाटनम् अकरोत्। राष्ट्रिय-राजधान्यां त्रिषु स्थलेषु क्रीडाः आयोज्यन्ते। क्रीडामन्त्री उक्तवान् यत् खेलोइण्डिया-कार्यक्रमान्तर्गतं, भारते क्रीडा-पारिस्थितिकी-तन्त्रं तीव्रतया विकसितं भवति, तथा च क्रीडकानां प्रदर्शने महत्वपूर्ण-परिष्कारः भवति। असौ कथितवान् यत् पेरिस-नगरे आयोजितायां गत-पैरालिम्पिक प्रतियोगितायां भारतीयक्रीडकाः नवविंशति-पदकानि विजित्य असाधारणप्रदर्शनं कृतवन्तः । असौ अस्य वर्षस्य खेलोइण्डिया-पैरागेम्स इत्येतस्यां प्रतियोगितायां भागग्रहीतेभ्यः क्रीडकेभ्यः शुभकामनाः प्रदत्तवान्। अयं कार्यक्रमः अद्यारभ्य अस्य मासस्य सप्तविंशति-दिनाङ्क यावत् दिल्ल्याम् आयोजयिष्यते। त्रयोदश-शताधिकाः क्रीडकाः षड्क्रीडायोजनेषु भागं ग्रहीष्यन्ति।











