सुनीता विलियम्स, बुच् विल्मोर् ९ मासान् अन्तरिक्षे स्थित्वा गृहं प्रत्यागच्छन्ति

नासा इत्यस्य अन्तरिक्षयात्रिणौ सुनीता विलियम्स, बुच-विल्मोर इत्येतौ षडशीत्यधिक-द्विशतदिनानि यावत् अन्तरिक्षक्षेत्रे समाप्य एकोनविन्शति दिनाङ्के प्रातः स्पेस-एक्स-क्रू-ड्रेगन इत्यस्मिन् अन्तरिक्षयाने समारुह्य धरायां प्रत्यावर्तितौ। तयोः यानम् अन्यैः सहयात्रिभिस्समं अमेरिकायाः खात्यां पैराशूट्स इत्येतेषां सहयोगेन अवतरितम्। अनेनैव सह अन्तरिक्षयात्रिभिः सह नासायाः निकहेग रूसदेशस्य अलेक्जेण्डर-गोरबुनोव इत्येताभ्याम् अपि स्वकीया यात्रा समापिता। एतेषां समेषां धरायामपि जीवनं सुकरं सामान्यञ्च भवेदिति मत्वा पञ्चचत्वारिंशद्दिवसात्मकः पुनर्वासकार्यक्रमः समारब्धोऽस्ति।
प्रधानमन्त्रिणा नरेन्द्रमोदिना ते सर्वेऽपि अन्तरिक्षयात्रिणः वर्धापिताः प्रशंसिताश्व, सहैव हि तेन तेषामपि प्रशंसा कृता येषां सत्प्रयासैः अन्तरिक्षयात्रिणां सुरक्षिततया धराधाग्नि प्रत्यावर्तनं सुकरं जातम्। सामाजिक-प्रसारतन्त्र-जाले प्रसारिते सन्देशे प्रधानमन्त्रिणा उक्तं यत् सुनीता – विलियम्स इत्यनया सह क्रू-नाईन इत्यस्य अन्तरिक्षयात्रिभिः पुनरेकवारं सिद्धीकृतं यत् दृढतायाः वास्तविकं तात्पर्यं किम्भवतीति। अनन्त-अज्ञात-शून्यस्य सम्मुखे तेषां दृढसङ्कल्पः सर्वदैव लक्षशः जनान् सम्प्रेरयिष्यति। सुनीता विलियम्स इत्यस्याः भावनाः प्रयासाञ्च समुट्टङ्कयन् श्रीमोदी उक्तवान् यत् तया स्वकीये सम्पूर्ण जीवने वृत्तौ च एतत् उदाहरणत्वेन प्रस्तुतं यत् कथं तस्याः भावनाः सन्ति, कथञ्च सत्प्रयासैः सा सम्बलिता अस्तीति।
राष्ट्रपतिपदासीनया द्रौपदी-मुर्मु इत्यनया क्रू-नाइन इत्यभियानस्य धरायां कुशलतया प्रत्यावर्तनाय नासा इत्यस्य सर्वमपि दलं वर्धापनानि सन्ति प्रेषितानि । सामाजिक-सञ्चार-तन्त्र-जाले प्रसारिते एकस्मिन् सन्देशे राष्टर्पतिना प्रोक्तं यत् भारतस्य पुत्र्या सुनीता विलियम्स इत्यनया, तस्याः सहयात्रिभिश्व स्वस्य दृढतायाः, समर्पणस्य, कथमपि पराजयं न स्वीकरिष्यामीति भावनायाः च परिचयो दत्तः।
सुनीता विलियम्सस्य भगिनी बुधवासरे २८६ दिवसेभ्यः परं सुनीता पृथिव्यां प्रत्यागत्य स्वस्य आनन्दं प्रकटितवती। सुनीता शीघ्रमेव भारतम् आगमिष्यति इति अपि सा अवदत् ।