अग्रजा अभिरञ्जितः कोषश्च (बाल कथा )

पुरा केचन बालाः कस्यचित् नगरस्य बहिः अवसन् । तत्र नगरस्य समग्रः अवकरः पर्वतशृङ्खला इव निक्षिप्तः आसीत् । यत्र यत्र दृष्टिः पतति, तत्र तत्र अवकरस्य बृहद्राशिः एव अदृश्यत।
ते बालाः शालां न गच्छन्ति स्म। सर्वदा तं “अवकरगिरिं” परिभ्रमन्ति स्म । केचन कूपीनां, केचन वस्त्रपटानां च सङ्ग्रहणं कुर्वन्ति स्म। अवकरस्य विषये तेषां अनुभवज्ञानम् अधिकम् आसीत् ।
एकदा दीदी तत्र आगतवती । सा एकं रक्तवर्णमयम् अङ्गवस्त्रं “दुपटा” दृतवती आसीत् । सा धावतः बालान् विस्मयेन दृष्टवती। एकत्र उपविश्य स्वस्य स्यूतात् किञ्चित् स्वीकृतवती ।
बालाः सर्वे कौतूहलान्विताः आसन् । ते ताम् उपागतवन्तः। तस्याः स्यूते बहूनि सुरञ्जितानि पुस्तकानि आसन् । सर्वेषु पुस्तकेषु चित्रकथाः भरिताः। ते इतोऽपि किंञ्चित् उपसृतवन्तः।
दीदी प्रतिदिनम् आगच्छति स्म। तां दृष्ट्वा बालाः भ्रमणं त्यक्त्वा तां परितः उपविशन्ति स्म। कथाः अवधानेन शृण्वन्ति स्म। अचिरेण ते कानिचन अक्षराणि पदानि च पठितुं शक्ताः अभवन् । शीघ्रमेव ते स्वयं कथां पठितुम् अपि आरब्धवन्तः।
दीदीयाः कृते शीघ्रमेव ते एकं स्थानं सुनिश्चितवन्तः। | अवकरसञ्चयात् ते एकम् आसन्दम्, एकं कटम्, एकां जवनिकां च आनीतवन्तः । एवं तेषां मध्ये इदानीं तस्याः एकं सुखकरं स्थानं सुव्यवस्थितम् आसीत् ।
एकदा दीदी न आगतवती। अन्यस्मिन् दिने अपि सा न दृष्टा। बालाः दुःखिताः अभवन् । तां प्रतीक्षमाणाः स्वयमेव तानि पुस्तकानि पठितवन्तः मिथः श्रावितवन्तश्च।
एकस्मिन् दिने यदृच्हया कस्मिंश्चित् पुस्तके दीदीयाः पत्रसङ्केतः लब्धः। ते पुस्तकानां स्यूतं नयन्तः तस्याः अन्वेषणे प्रस्थितवन्तः।
इदानीं ते लोकयानानां सङ्ख्याः, मार्गाणां नामानि च पठितुं शक्ताः। कारणम् ? दीदी तान् सर्वान् शनैः शनैः शिक्षितवती आसीत् खलु !
ते वीथीनां नामफलकानि गृहाणां सङ्ख्याफलकानि च पश्यन्तः मार्गात् मार्ग, गृहात् गृहं अटितवन्तः। किन्तु अहो कष्टम् ! ते तस्याः गृहं न प्राप्तवन्तः ।
दुःखेन प्रतिनिवर्तयितुं निश्चितवन्तः। तदा भाग्यवशात् कस्यचित् वातायानस्य समीपे लम्बमानं रक्तवर्णमयम् अङ्गवस्त्रं दृष्टम् ।
अन्तः दीदी मञ्चे शयाना आसीत् । सा अस्वस्था आसीत् । नेत्रयोः दुःखम् ! सा न स्मितवति एव। वैद्येन औषधानि दत्तानि। किन्तु निवारणम् इतोपि न प्राप्तम् । बालाः तां प्रति धावितवन्तः, तां समालिङ्ग्य चुम्बनं कृतवन्तश्च। तस्यै पुस्तकानि प्रत्यर्पितवन्तः । तेभ्यः काञ्चन कथां पठित्वा श्रावितवन्तः |
तस्याः नेत्रयोः प्रकाशः पुनरागतः। वदने मन्दस्मितमपि पुनः स्फुरितम्!
दीदी अधुना बालान् मेलितुं पूर्ववत् आगच्छति । प्रतिदिनं सायङ्काले तान् सर्वान् दीदिया सह एकत्र द्रष्टुं शक्नुमः। तेषां पठनम् उच्चस्वरेण हसनं च श्रोतुं शक्नुमः। बालाः, तेषां दीदी, पुस्तकानि च… कोलाहलमयं वातावरणं पुनः स्थापितम् इति न संशयः !