वार्ताहर: – प्रवेशकुमारशुक्ल:, भोपालम्
नवसंवत्सरमहोत्सवे केन्द्रीयसंस्कृतविश्वविद्यालयस्याधिकृतं राष्ट्रिय श्रीभोजराजपञ्चाङ्गस्य लोकार्पणं सम्भूतम्।
विश्वविद्यालयस्य श्रेष्ठ: कुलपतय: प्रो० श्रीनिवास वरखेड़ीवर्यै: उक्तं भगवतो वेदस्य नेत्ररूपेण प्रतिष्ठितं ज्योतिषशास्त्रं व्रतपर्वादिपरिज्ञानसोपानम्। ग्रहगतिमाध्यमेनैव व्रतपर्वादिपरिज्ञानं प्राप्य तत्तत्कर्मप्रवृत्तो भवति मानवः। फलानि ग्रहचारेण सूचयन्ति मनीषिणः। फलसञ्चारस्य फलव्याप्तेर्वा निश्चितनियमे सत्येव ग्रहचारेण फलाभिव्यक्तिर्भवितुमर्हति। अर्थात् महर्षयो विश्वस्य समग्रं तत्त्वमवगम्यैव सिद्धान्तान् स्थिरीकृतवन्तः। व्रतपर्वनिदर्शकस्य पञ्चाङ्गस्यापि प्रवृत्तेराधारः फलसञ्चयः फलप्राप्तिः फलोत्पत्तिश्च भवति। अतः परम्पराया मार्गदर्शकरूपेण दृक्सूचीबद्ध पञ्चाङ्ग प्रवर्तते। लोका: समस्ता: सुखिनो भवन्त्विति कामये। भोपालपरिसरनिदेशका: पूज्या: प्रो. रमाकान्तपाण्डेयवर्या: कथितं भारतीया संस्कृतिव्रतपर्वतिथिप्रधाना वर्तते। अस्यां जनसामान्यमपि स्वीयं कार्यं सुमुहूर्त एव सम्पादयति। लोके यद् यद् अस्माभिराचर्यते तत्सर्वं समर्पणबुद्ध्यैव। “इदं राष्ट्राय, इदं न मम” इयमेव चेतना भारतीयानां मनसि सर्वदा जागर्त्ति। एतद्बुद्ध्यैव संसारे क्रियमाणं कार्यं पारमार्थिकी सिद्धिं वितरति। “मृत्योर्मा अमृतं गमय” इति धिया संसारसरणौ सरन्तो भारतीया लोकं लौकिकं कर्म च पारमार्थिकलाभोपायत्वेन स्वीकुर्वन्ति । अस्यां स्थितौ ते सर्वाण्यपि कार्याणि शुभमुहूर्त सम्पादयन्तीति पञ्चाङ्ग तेषां कृते नितरामपरिहार्यम्।
सह-निर्देशका: प्रो० नीलाभतिवारीमहाशयै: भणितं “पञ्चाङ्गस्य फलं श्रुत्वा गङ्गास्नानफलं लभेतिति” । मुख्यातिथित्वेन तिरुपतिस्थ राष्ट्रियसंस्कृतविश्वविद्यालयस्य ज्योतिषविभागस्याध्यक्षचर: प्रो. श्रीपादभट्टः।सारस्वतातिथिरूपेण लखनऊपरिसरस्य निदेशका: प्रो. सर्वनारायणझावर्या: उपस्थिता:।
विशिष्टातिथित्वेन कविकुलगुरुकालिदाससंस्कृतविश्वविद्यालयस्याचार्या: प्रो. कृष्णकुमारपाण्डेय: समागता:। कार्यक्रमोSयं प्रो. भारतभूषणमिश्रवर्याणां संयोजकत्वेन सम्पन्न:। प्रातः पञ्चवादने परिसरीयाचार्या: छात्राश्च शंखध्वनिवेदोद्घोषै: नवसंवत्सरस्योत्व: समाचरितवन्त:। प्रो. सुबोधशर्मा:, प्रो. अशोककुमारकछवाह:, डा. प्रदीपदीक्षित:, डा. राकेशवर्मा ,डा. जीतेन्द्रतिवारी, डा.एस कृष्णा डा. वरुणसौरभपोखरियाल:, डा.गोकुलतिवारी डा. महिमातिवारी श्री अंकुरपाण्डेय प्रभृतया: विद्वांस: उपस्थिता: आसन्।











