निर्धनो ब्राह्मणः (बाल कथा )

एक: निर्धनः ब्राह्मणः आसीत्। तस्य एका पुत्री आसीत्। तस्य पत्नी अतीव अलसा आसीत्। सा न तु पूजां पाठं च करोति स्म, नैव च बहिः अन्तः वा स्वच्छताम्। प्रातः स्नानं विनैव रोटिकां खादति स्म। ब्राह्मणः तां कथयति स्म त्वं पूजाम् अपि न करोति, प्रातः स्नानं विना एव रोटिकां खादति, अत एव वयं दरिद्राः स्मः। परं ब्राह्मण्यां तस्य कथनस्य कोऽपि प्रभावः न भवति स्म।
शनैः शनैः तस्य पुत्री वर्धिता। सा अत्यन्तम् एव नियम धर्मयुक्ता आसीत्। प्रातः उत्थाय प्रतिदिनं स्नानं कृत्वा भगवतः विष्णोः पूजां करोति स्म। प्रतिदिनं विद्यालयगमन-समये मुष्टिकापरिमितान् यवान् आदाय मार्गे तान् वपन्ती गच्छति स्म। यदा सा विद्यालयात् आगच्छति स्म तदा ते यवाः सुवर्णस्य रूपे परिवर्तिताः भवन्ति स्म। एकदा सा भगवन्तं विष्णुं प्रार्थितवती- हे भगवन्! भवान् मम यवबीजानि सुवर्णानि करोति, यदि अहं सत्येन मनसा भवतः पूजां करोमि तर्हि भवान् मह्यम् एकं सुवर्णसूर्प ददातु इति। भगवता विष्णुना तस्याः प्रार्थनां निशम्य तस्यै सुवर्णसूर्पः प्रदत्तः।
तत्रत्यराजा स्वपुत्रस्य विवाहार्थं बहु चिन्तितः आसीत्, यतोहि राजकुमाराय कापि कन्या न रोचते स्म। एकस्मिन् दिने राजा राजकुमारम् उक्तवान् पुत्र ! त्वं नगरे भ्रमणं कुरु, या कापि कन्या तव मनो हरिष्यति मां सूचय, अहं तया सह एव तव विवाहं कारयिष्यामि। नगरे भ्रमन् राजकुमारः ब्राह्मणस्य गृहं प्राप्तवान्। तस्मिन् समये ब्राह्मणस्य कन्या सुवर्णसूर्पे सुवर्णयवान् शोधयति स्म। सा तु रूपयौवनसम्पन्ना आसीत्। तां दृष्ट्वा राजकुमारः मनसि निश्चयं कृतवान् यद् विवाहं करिष्यामि चेत् अनया सह एव करिष्यामि, अन्यथा न करिष्यामि इति।
राजभवनमागत्य राजकुमारः तूष्णीं शय्यायां शयनम् अकरोत्। राजकुमारं शयानं विलोक्य राजा बहु चिन्तितः। सः मन्त्रिणमाहूय आदिष्टवान् यद् गत्वा राजकुमारं पृच्छतु, सः विश्रामं कर्तुं शेते अथवा चिन्तया इति। मन्त्री राजकुमारम् उपगम्य पृष्टवान्- राजकुमार! महाराजः पृच्छति यद् भवान् विश्रामं कर्तुं शेते अथवा चिन्तया इति। राजकुमारः उत्थाय राज्ञः समीपं गतवान्। राजा तं पृष्टवान्- पुत्र ! किमर्थं त्वं चिन्तितोऽसि? कापि कन्या दृष्टा त्वया या तुभ्यं रोचेत? राजकुमारः उक्तवान् आम् दृष्टा तात! या कन्या सुवर्णसूर्पे सूवर्णयवान् परिशोधयति स्म, अहं तु तया सह एव विवाहं करिष्यामि। राजा तत्कालं मन्त्रिणमाहूय उक्तवान्- नगरं गत्वा सुवर्णसूपें सुवर्णयवान् शोधयन्तीं कन्याम् अन्विष्यतु, कन्यायाः पितरं राजकुमारस्य मनसः कथां निवेद्य तस्य कन्यया सह राजकुमारस्य विवाहस्य निश्चयं कृत्वा आगच्छतु।
एवं हि नगरे सर्वत्र पृच्छन् मन्त्री ब्राह्मणस्य गृहं प्राप्तः। ब्राह्मणः सादरं तस्मै आसनं दत्तवान् आगमनस्य कारणं च पृष्टवान्। मन्त्री ब्राह्मणं राजकुमारस्य मनसः कथां श्रावितवान्, तथा च राज्ञः आदेशं वर्णयन् उक्तवान्- महाराजस्य आदेशः अस्ति यद् विवाहस्य निश्चयं कृत्वा आगच्छतु। ब्राह्मणः करौ सम्पुटीकृत्य अवादीत्- महाराज! अहं तु निर्धनः ब्राह्मणः अस्मि, कथं वा भवतः सेवां कर्तुं सक्षमः? मम पाश्र्वे तु कन्यायै दातुं किमपि नास्ति। मन्त्री उक्तवान्- विप्रवर! भवान् तस्य चिन्तां मा करोतु, केवलं कन्यादानाय स्वीकृतिं ददातु। ब्राह्मणः अब्रवीत्- मम कन्या रूपवती गुणवती चास्ति, यदि राजकुमारः मम एव कन्याम् इच्छति, तस्मै मम कन्या रोचते, तस्याः भाग्ये राजसुखस्य योगः अस्ति, तर्हि निषेधं कर्तुं मम कोऽधिकारः ? एवं प्रकारेण राजकुमारेण सह ब्राह्मणस्य कन्यायाः विवाहस्य वार्ता कृत्वा मन्त्री प्रत्याजगाम, आगत्य च स इमां वार्ता राजानं श्रावितवान्। विवाहस्य शुभमुहूर्त्तम् अपि विनिश्चितम्। राजकुमारस्य वरयात्रा निर्धनब्राह्मणस्य गृहं गता। ब्राह्मणस्य पुत्र्याः विवाहः राजकुमारेण सह अभवत्। विवाहानन्तरं कन्या पतिगृहं प्रत्यागता। यदा ब्राह्मणस्य पुत्री श्वशुरालयं गता तदा ब्राह्मणस्य गृहे पूर्ववत् सैव दरिद्रता व्याप्ता अभवत्। यदा पुत्री द्विरागमनाय मातृगृहं समागता तदा सा स्व मातरं प्रबोधयन्ती उक्तवती- मातः! त्वं प्रातःकाले उत्थाय स्नानं कृत्वा भगवतः विष्णोः पूजां कुरु। किन्तु तस्याः माता पुत्र्याः वचने कदापि विचारं न कृतवती। द्वित्रिदिनानन्तरं पुत्री श्वशुरालय प्रति अगच्छत्।
एकस्मिन् दिने ब्राह्मणः स्वपुत्रीं द्रष्टुं श्वशुरालयं गतवान्। पुत्री पितरं गृहस्य कुशलं पृष्टवती। ब्राह्मणः उक्तवान् पुत्रि! यथा त्वं पूर्वं दृष्टवती तथैव अस्ति। पुत्री पित्रे धनं दत्त्वा प्रेषितवती। तेन धनेन कानिचन दिनानि सम्यक्तया यापितानि, पुनः पूर्वस्थितिः। एकवारं ब्राह्मणः पुनः पुत्र्याः श्वशुरालय गतवान्। पुत्री पितुः म्लानं मुखं दृष्ट्वा पृष्टवती- तात! भवान् एवं करोतु ।
मातरम् अत्रैव आनयतु। अहं तां व्रतविधिं बोधयिष्यामि, व्रतं च कारयिष्यामि, ईश्वरकृपया सर्वं शुभं भविष्यति ।
ब्राह्मणाय पुत्र्याः परामर्शः भृशम् अरोचत। सः शीघ्रं गृहं गत्वा ब्राह्मण्या सह पुनरागतः। पुत्री मातरं प्रबोधितवती, परं सा न मनुते स्म। सा तु प्रातःकाले पौत्राणाम् उच्छिष्टान्नं खादति स्म। एकस्मिन् दिने पुत्री मातरं गोष्ठे स्थापितवती, येन सा मुखम् उच्छिष्टं कर्तुं न शक्नुयात्। प्रातः उत्थाय तया माता स्नापिता, व्रतं च कारितम्। दिने तां व्रतविधिं च बोधितवती। प्रतिदिनं एवं कृते सति तस्याः स्नानस्य अभ्यासः सञ्जातः। पूजायां, पाठे, व्रते च तस्याः रुचिः अवर्धत ।
पुत्र्याः एव गृहे यदा बहूनि दिनानि व्यतीतानि, एकस्मिन् दिने ब्राह्मणः ब्राह्मणी च पुत्र्यै आशीर्वादं प्रदाय स्वगृहं प्रत्यागतौ। स्वगृहम् आगत्य अपि ब्राह्मणी पुत्र्याः निर्देशानुसारं व्रतं पूजां च निरन्तरम् अकरोत्। भगवतः विष्णोः कृपया तस्याः गृहस्य दारिद्र्यं दूरम् अभवत्। एवमेव दिनानि व्यतीतानि, अन्ते उभावपि इहलोके सुखोपभोगं कृत्वा विष्णुलोकं ययौ।