रामनवमीपर्वणः शुभावसरे प्रधानमन्त्री श्री नरेन्द्रमोदी तमिलनाडुराज्यस्य नवीन पम्बन-रेल-सेतोः उद्घाटनं विहितवान्। प्रधानमन्त्रिणा तमिलनाडौ त्रिशतकोट्यधिकाष्ट-सहस्ररुप्यकाणां विभिन्नानां विकासात्मक रेल मार्ग-परियोजनानानम् अधारशिला च संस्थाप्य राष्ट्राय समर्पिता। तेनोदीरितं यत् तमिलनाडोः विकासः राष्ट्रस्य विकासे योगदानमस्ति। परियोजनैथं रामनवम्यां उपहारवद् वर्तते इति असौ उल्लिखितवान्। सममेव संगम-साहित्ये भगवतः रामस्य उल्लेखम् असौ अकरोत्। तेनोक्तं यत् अस्मिन् दिवसे प्राचीन रामेश्वरम् मंदिरे पूजा-अर्चना अपि च परियोजनायाः समर्पणं च अलौकिक क्षणवत् अस्ति। अयं रेलसेतुः वास्तुकलायाः एकः अद्भुतः प्रतिदर्शी विद्यते यो हि देशस्य प्रथमः वर्टिकललिफ्ट इति ऊर्ध्वाधरोन्नयन सागरीयसेतुः अस्ति। असौ तावत् अस्याद्वितीयकार्यस्य कृते निर्माणकर्तृभ्यः च धन्यवादज्ञापनं विहितवान्। श्रीमोदी उक्तवान् यत् अनया परियोजनया व्यापारः, पर्यटनं च वर्धिष्यते अपि च जनेभ्यः वृल्यवसराः लप्स्यन्ते ।











