संस्कृतभारती,उज्जयिनी द्वारा अंबेडकरजयन्ती आचरिता।

वार्ताहर: – डॉ. दिनेश चौबे, उज्जयिनी

भारतरत्न संस्कृतस्य प्रवलसमर्थकस्य बाबासाहेबभीमराव अंबेडकरवर्यस्य जयन्त्यवसरे संस्कृतभारती,उज्जयिनी, मालवा द्वारा अप्रैलमासस्य १४ तमे दिनांके भीमराव-जयन्त्युत्सवस्य आयोजनम् उज्जयिन्या: ग्रामीणक्षेत्रे कृतम् आसीत्। कार्यक्रमस्य आदौ संविधाननिर्माता अम्बेडकर-महोदयस्य चित्रोपरि मल्यार्पणं कृत्वा संस्कृतस्य प्रति तस्य योगदानस्य स्मरणं श्रद्धाजलि: च अर्पिता।
कार्यक्रमे प्रान्तगीताशिक्षणप्रमुखः रमेशशुक्लवर्य:, विभागसहसंयोजकः, अपूर्वपौराणिकवर्य:, जनपदाध्यक्षः, रमेशनागरवर्य:, राकेशसोलंकी, विजयत्रिवेदी, हेमन्तशर्मा, बाबूलालबामनिया, कुमारदीपकः, कृपारामः, रतनसोलंकी, जितेंद्रशर्मा, गोपालसिंह:, सोहनलालः, गौरवपाराशरः एवं च वसत्याः जनाः उपस्थिताः आसन्।