अमेरिकीयः उपराष्ट्रपतिः जे. डी. वेंसः एकविंशति दिनाङ्के नवदिल्लीं प्राप्तः। चतुर्दिवसीय-भारत-यात्रायाम् आगतस्य अमेरिकीय-उपराष्ट्रपतेः जे. डी. वेंस इत्यस्य स्वागत-सत्कारं सूचना-प्रसारण-मन्त्री अश्विनी वैष्णवः कृतवान्। ध्येयमस्ति यद् उपराष्ट्रपतेः वेंसस्य एषा प्रथमा भारत-यात्रा वर्तते। दिल्लीम् आगत्य अमेरिकायाः उपराष्ट्रपतिः जेडी वेंसः, तत्रत्या द्वितीया महिला च उषा वेंसः सपरिवारं अक्षरधाम मन्दिरं गत्वा अक्षर-पुरुषोत्तम-भगवतः पुण्यदर्शनं कृतवन्तः ।
अथ च असौ प्रधानमन्त्रिणा नरेन्द्र-मोदिना साकं सम्भाषणम् आचरेत् । अमेरिकीय-उपराष्ट्रपतेः जे डी वेंसस्य भारत-यात्रा देश-द्वयस्य द्वै-पाक्षिक-सम्बन्धानां प्रगतेः समीक्षायाः, किञ्च अस्मिन् वर्षे फरवरी त्रयोदश्यां प्रधानमन्त्रिणः नरेन्द्र-मोदिनः अमेरिका-पत्रायाः अवसरे प्रख्यापितस्य भारत-अमेरिका-संयुक्त-वक्तव्यस्य परिणामानां कार्यान्वयनस्य च कृते अवसरं प्रदास्यति। उभावपि पक्षौ परस्परं हितानां क्षेत्रीय-विकासेषु वैश्विक-विकासेषु च विचार-विनिमयमपि करिष्यतः।











