पोप-फ्रांसिस इत्यस्य अष्टाशीति-वर्ष-वयोमिते आयौ सुदीर्घ-रोगस्य कारणेन निधनं जातम्। असौ विभिन्न रोगैः पीडितः आसीत्, अथ च साम्प्रतिकेषु सप्ताहेषु तस्य स्थितिः अतोऽपि गम्भीरा जाता आसीत्। पोप फ्रांसिसः निर्धनानां कृते सहयोगाचरण-परस्य कैथोलिक चर्च-गृहस्य नूतानाकार-प्रवर्तकत्वेन अभिज्ञायते।
पोप-फ्रांसिसः त्रयोदशोत्तर-द्वि-सहस्र-तम-वर्षात् पूर्व लैटिन अमेरिकीय-पोप-पदत्वेन प्रचितः आसीत्। असौ चर्चस्य इतिहासे सर्वाधिक-वृद्ध-पोपेषु एकतमः मन्यते। तस्य निधनं वेटिकन-नगरस्य कासा-सांटा-मार्टा-स्थिते तदीये एव निवासे जातम्। असौ सुदीर्घ-समयात् रुग्णः चलति स्म। अथ च असौ एकमास-पर्यन्तम् उपचारानन्तरं मार्च-चतुर्विंश्यां निजे निवासे प्रत्यावर्तितः आसीत् ।
अत्रावसरे प्रधानमन्त्री नरेन्द्र मोदी पोप फ्रांसिसस्य निधने गहनं दुःखं प्रकाशितवान्। सममेव वैश्विक कैथोलिक-समुदायं प्रति संवेदनाश्चापि व्यक्तीकृताः सन्ति मोदिना। सामाजिक संजालीये-सन्देशे श्रीमोदी उदैरयत् यत्, पोप-फ्रांसिसः सर्वदा करुणा-विनम्रता-आध्यात्मिक साहसादिनां प्रतीकत्वेन स्मरिष्यते। श्रीमोदिना पोपेन साकं विहितानि नैजानि उपवेशनानि अपि स्मृतानि, प्रोक्तं च यत् पोपस्य समावेशितापूर्ण सर्वांगीण विकासं प्रति प्रतिबद्धतया असौ प्रेरितः अस्ति। अत्रावसरे जर्मन देशस्य चांसलर इति राष्ट्राध्यक्षेण ओलाफ स्कोल्ज इत्यमुना, ब्रिटिश प्रधानमन्त्रिणा कीर स्टारमर-वर्येण, इटली देशस्य प्रधानमन्त्रिणा मेलोनी वर्यया, फ्रांस-राष्ट्रपतिना इमैनुअल मैक्रों इत्यमुना चापि गम्भीरः शोकः प्रकटितः अस्ति।











