चिनाब नद्याः प्रवाहः निरुद्धः

आतङ्कवादी-आक्रमणस्य पश्चात् पाकिस्तान-विरुद्धम् अपरस्मिन् सशक्त-पदे भारतेन चिनाब नद्याः बगलिहार-जलबन्धेन जलस्य प्रवाहः निरुद्धः अस्ति। भारतेन सिन्धुनदीभ्यः समीपस्थदेशं प्रति “एकबिन्दुरपि जलं” गन्तुं नानुमन्यते इति निर्णयं अनुसृत्य, बगलीहारजलबन्धात् पाकिस्तानं प्रति जलप्रवाहः म् अवरुद्धः। भारतेन अधुना झेलम नद्याः किशङ्गङ्गा-जलबन्धे अपि एतादृशानाम् उपायानां योजना क्रियते । अवधेयमस्ति यत् जम्मू-सम्भागस्य रामबन-मण्डले स्थितः बगलीहार-जलविद्युत्-वन्धः, उत्तर-कश्मीरे किशनगङ्गा-जलविद्युत्-वन्धः भारताय जल-विमोचन-समय-नियमनस्य क्षमताम् यच्छतः।
प्रधानमन्त्रिणा नरेन्द्रमोदिना निगदितं यत् भारतस्य नदीनाम् जलम् साम्प्रतं देशस्य हिताय उपयुज्यते। नवदिल्ल्यां एकस्या स्वायत्तवाहिन्याः सम्मेलनं सम्बोधयन् प्रधानमन्त्री अवदत् यत् भारतस्य यत् जलम् पूर्व बहिः आसीत् तत् अधुना भारतस्य हिताय उपयुज्यते अथ च देशाय उपयोगी भविष्यति।