पहलगाम्-नगरे आतङ्कवादी-आक्रमणस्य निन्दां रूस-जापान-देशौ कुर्वतः

रशियादेशीयः राष्ट्रपतिः व्लादिमीर् पुतिनः ह्यः प्रधानमन्त्रिणा नरेन्द्रमोदिना सह वार्तालापं कृत्वा पहलगामातङ्क्याक्रमणस्य कठोरनिन्दां कृतवान्। दूरभाषेण वार्तालापकाले राष्ट्रपतिना पुतिन इत्यमुना निर्दोषाणां प्राणहानिविषये गभीराः शोकसंवेदनाः प्रकटिताः तथा च आतङ्कवाद-विरुद्ध-युद्धे भारतस्य पूर्णसमर्थनं च प्रकटितम्। सः जघन्यस्य आक्रमणस्य अपराधिनः तेषां समर्थकाः च न्यायालये आनेतव्याः इत्यवोचत्। विदेशमन्त्रालयस्य प्रवक्ता रणधीर- जयसवालः सामाजिकमाध्यम-पटले अलिखत् यत् वार्तालापकाले उभौ नेतारौ भारतस्य रशियादेशस्य च मध्ये विशेषाधिकारयुक्तं सामरिक-सहयोगम्, अधिकं गभीरं कर्तुं स्वप्रतिबद्धतां पुनरुक्तवन्तौ। प्रधानमन्त्री मोदी अशीतितमं वार्षिक-विजयदिवसमुद्दिश्य राष्ट्रपतये पुतिन इत्यस्मै अभिनन्दनं कृतवान् तथा च इतःपरं भारते आयोजयिष्यमाणा-वार्षिकशिखरसम्मेलनाय आमन्त्रितवान्।
भारतजापानदेशौ
भारतजापानदेशौ आतङ्कवादस्य सर्वाणिरूपाणि निन्दितवन्तौ अपि च उभयोः देशयार्मध्ये निहितद्विपक्षीयसम्बन्धान् सुदृढीकर्तुं क्षेत्रीयशान्त्याम् योगदानं प्रदातुं च स्वप्रतिबद्धतां पुनरावर्तितवन्तौ। ह्यः नवदिल्ल्यां रक्षामन्त्री राजनाथसिंह: तस्य च जापानदेशीयेन समकक्षेण जनरल-नाकातानी-इत्येतेन सह जाते उपवेशने उभौ देशौ भारत-जापान कार्यनीतिकस्य वैश्विक-सहकार्यस्य रक्षा-सुरक्षयोः विविधान् उपायान् समीक्षितवन्तौ।