आतङ्कवादविरुद्धयुद्धे भारतस्य समर्थनाय अमेरिकादेशः सर्वविधप्रयत्नं करिष्यतीति संयुक्तराज्य-प्रतिनिधिसभायाः अध्यक्षः माइक- जॉन्सनः उक्तवान् । सः उक्तवान् यत् भारतदेशः अमेरिका-देशस्य अतीव महत्त्वपूर्णः सहयोगी वर्तते । भारत-अमेरिका-देशयोः व्यापारसन्धीनां विषये अपि सः उक्तवान्, द्वयोः राष्ट्रयोः मध्ये व्यापारवार्ता सामञ्जस्य-स्थापनस्य कार्यं करिष्यति इत्यपि सः आशां प्रकटितवान् । श्री-जॉन्सनः उक्तवान् यत्, पहलगाम-आतङ्कवाद-आक्रमणस्य अनन्तरं ट्रम्प-प्रशासनेन भारतस्य आतङ्कवाद-विरुद्ध- युद्धस्य समर्थनं प्रकटितम्, यस्मिन्नाक्रमणे षड्विंशति-जर्नानां प्राणाः कालग्रासभूताः, अन्ये च केचन जनाः व्रणिताः अभवन्।
संयुक्तराष्ट्रसुरक्षापरिषद्-पहलगाम
संयुक्तराष्ट्रसुरक्षापरिषत् पिहित-द्वारसत्रे पहलगाम आतङ्कवाद्याक्रमणस्य विषये पाकिस्तानदेशेन प्रश्नपृच्छामकरोत् । भारत- पाकिस्तानयोः मध्ये वर्धमानस्य विद्वेषभावस्य मध्ये इदम् अधिवेशनम् अभवत् । प्राप्तसूचनानुसारं संयुक्तराष्ट्रसङ्घस्य अनेके सदस्याः पाकिस्तानस्य आलोचनां कृतवन्तः, अथाक्रमणे पाकिस्तानस्य आतङ्कवादि-समूहस्य लश्कर-ए-तैबा इत्यस्य भूमिकायाः विषये चिन्ताम् अपि उत्थापितवन्तः। संयुक्तराष्ट्रसङ्घस्य अध्यक्षेण इवान्जेलोस् सेकेरिस् इत्यनेन उक्तं यत् सभैषा बहूत्पादिका सहायिका चासीत् । सः शान्तेः प्रतिस्थापनाय संयुक्तराष्ट्रसुरक्षापरिषदः पात्रतां सबलं प्रतिपादितवान् ।
जघन्य-पहलगाम-आतङ्की-आक्रमणे पीडितैः सह एकतां प्रकटयितुं विश्वे भारतीयसमुदायाः शान्तिपूर्ण-सभाः प्रार्थना-सभाः च निरन्तरं कुर्वन्ति। इमानि वैश्विकप्रदर्शनानि हिंसायाः एकीकृतनिन्दां, आतङ्कवादस्य सम्मुखे शान्तेः न्यायस्य च समाह्वानं प्रतिबिम्बयन्ति। संयुक्तराष्ट्रसंघस्य जॉर्जियादेशस्य भारतीयसमुदायेन अट्लाण्टानगरे आतङ्क-विरोधी-सभायाः आयोजनं कृतम्, यत्र हि अमेरिकीकाङ्ग्रेस-सदस्यः रिच्-मेक्-कॉर्मिकः अपि आतङ्कवादस्य निन्दां कृत्वा अतिवादी-हिंसायाः निवारणे अन्ताराष्ट्रियैकतायाः आह्वानं कृतवान् । शिकागोनगरे शौमबर्ग-नगरस्य नेशनल्-इण्डिया-केन्द्रे अनेक-भारतीयसङ्घानामुपस्थितौ एकः महान् समागमः अभवत् यत्र भारतीय-महा-वाणिज्यदूतः सोमनाथ-घोषः एकतायाः, स्मरणस्य, संकल्पस्य च सन्देशं प्रदत्तवान्। न्यूयॉर्क-नगरे सेण्ट्-मेरी- आर्थोडॉक्स-चर्च-मध्ये गभीर-प्रार्थना-समागमः अभवत्। एवमेव स्पेनदेशे, कनाडादेशे, स्वीडेन् देशे च तत्तद्देशीयाः पहलगामाक्रमणे पीडितेभ्यः शोकं प्रकटयितुम् आतङ्कवादविरुद्धं भारतस्य समर्थनाय सभाः अभवन् ।











