तुलां लोहस्हस्त्रस्य यत्र खादन्ति मूषिकाः । राजंस्तत्र हरेच्छ्येनो बालकं नात्र संशयः ॥ अस्ति कस्मिंश्चिदधिष्ठाने जीर्णघनो नाम वणिक्पुत्रः । स च विभवक्षयाद्देशान्तरगमनमना व्यचिन्तयत् यत्र देशेऽथवा स्थाने भोगा भुक्ताः स्ववीर्यतः । तस्मिन्विभवहीनो यो वसेत्स पुरुषाधमः ॥ तथा च येनाहङ्कारयुक्तेन चिरं विलसितं पुरा । दीनं वसति तत्रैव यः परेषां स निन्दितः तस्य च गृहे लोहभारघटिता पूर्वपुरुषोपाजिता तुलाऽऽसीत् । तां च कस्यचिच्छ्रेष्टिनो गृहे निक्षेपभूतां कृत्वा देशान्तरं प्रस्थितः । ततः सुचिरं कालं देशान्तरं यथेच्चया भ्रान्त्वा पुनः स्वपुरमागत्य तं श्रेष्ठिनमुवाच “भोः श्रेष्ठिन्! दीयतां मे सा निक्षेपतुला । “स आह “भो! नास्ति सा त्वदीया तुला; मूषिकेर्भक्षिता” इति ।
जीर्णधन आह “भो श्रेष्ठिन्! नास्ति दोषस्ते, यदि मूषिकैर्भक्षितेति । ईद्दगेवायं संसारः । न किञ्चिदत्र शाश्वतमस्ति । परमहं नद्यां स्नानार्थं गमिष्यामि, तत्त्वमात्मीयं शिशुमेनं धनदेवनामानं मया सब स्नानोपकरणहस्तं प्रेषय” इति ।
सोऽपि चौर्यभयात्तस्य शङ्कितः स्वपुत्रमुवाच “वत्स ! पितृव्योऽयं तव स्नानार्थ यास्यति, तद् गम्यतामनेन सार्धं स्नानोपकरणमादाय” इति ।
अहो, साध्विदमुच्यते – न भक्त्या कस्यचित्कोऽपि प्रियं प्रकुरुते नरः । मक्त्वा भयं प्रलोभम वा कार्यकारणमेव वा ॥
तथा च अत्यादरो भवेद्यत्र कार्यकारणवर्जितः । तत्राशङ्का प्रकर्तव्या परिणामे सुखावहा ॥
अथासौ वणिक्शिशुः स्नानोपकरणमादाय प्रहृष्टमनास्तेनाभ्यागतेन सह प्रस्थितः । तथानुष्टिते स वणिक् स्नात्वा तं शिशुं गिरिगुहायां प्रक्षिप्य, तद् द्वारं बृहच्छिख्याच्छाद्य सत्वरं गृहमागतः ।
पृष्टश्च तेन वणिजा — “भो ! अभ्यागत ! कथ्यतां कुत्र मे शिशुर्यस्त्वया सह नदीं गतः ?” इति ।
स आह “नदीतटात्स शयेनेन हृतः ” इति ।
श्रेष्ठ्याह — “मिथ्यवादिन्! किं क्वचिच्छ्येनो बालं हर्तुं शक्नोति ? तत्समर्पय मे सुतम् । अन्यथा रागकुले निवेदिष्यामि” इति ।
स आह “भोः सत्यवादिन् ! यथा श्येनो बालं न नयति, तथा मूषिका अपि लोहभारघचितां तुलां न भक्षयन्ति, तदर्पय मे तुलां, यदि दारकेण प्रयोजनम् ।”
एवं तौ विवदमानौ द्वावपि राजकुलं गतौ । तत्र श्रेष्ठी तारस्वरेण प्रोवाच “भो ! अब्रह्मण्यम् ,अब्रह्मण्यम्! मम शिशुरनेन चौरेणापहृतः ।”
अथ धर्माधिकारिणस्तमूचुः “भोः! समर्प्यतां श्रेष्ठिसुतः ” । स आह- “किं करोमि, पश्यतो मे नदीतटांच्छ्येनेनापृहतः शिशुः” । तच्छ्रत्वा ते प्रोचुः “भोः! न सत्यमभिहितं भवता, किं श्येनः शिशुं हर्तुं समर्थो भवति”? स आह- “भो भोः! श्रूयतां मद्वचः तुलां लोहसहस्त्रस्य यत्र खादन्ति मूषिकाः ।
राजंस्तत्र हरेच्छ्येनो बालकं नात्र संशयः ॥
ते प्रोचुः “कथमेयतत्”? ततः स श्रेष्ठी सभ्यानामग्रे आदितः सर्व वृत्तान्तं निवेदयामास । ततस्तैर्विहस्य द्वावपि तौ परस्परं संबोध्य तुला- शिशुप्रदानेन सन्तोषितौ ।











