रक्षामन्त्रालयेन पाकिस्ताने पोके च आतङ्कवादीनां आधारभूतसंरचनानां लक्ष्यीकरणस्य पुष्टिः कृता “यतः भारतविरुद्धं आतङ्कवादीनां आक्रमणानां योजना कृता निर्देशिता च अस्ति।”
भारतीयसशस्त्रबलैः सिन्दूरइत्यभिनामधेयकम् अभियानं समारब्धम्। यस्मिन् पाकिस्तान-देशे अथ च पाकिस्तानधिकृत-जम्मू-कश्मीर आतङ्कवादाधारभूतसंरचनायां आक्रमणम् जातम् यत्र भारतं विरुध्य आतङ्क्याक्रमणानां योजना निर्मिता अपि च निर्दिष्टासीत्। रक्षामन्त्रालयेन एकस्मिन् वक्तव्ये प्रोदीरितं यत् आहत्य नवस्थानेषु आक्रमणम् व्यापादितम्। मन्त्रालयः अग्रे सूचितवान् यत् कृतकार्याचरणम् केन्द्रितं मापितम् अथ च प्रकृत्याम् उग्रेतरप्रकृतियुतमासीत्। मन्त्रालयेन स्पष्टीकृतं यत् किमपि पाकिस्तानसम्बद्धं सैन्यसौविध्यम् नैव अभिचिह्नितम् । एतदतिरिच्य लक्ष्यचयनावधौ निष्पादनपद्धत्यां च पर्याप्तं मितत्वं प्रदर्शितम् भारतेन। पहलगामातङ्ङ्ख्याक्रमणे पञ्चविंशति-सङ्ख्यकान् भारतीयान् समेत्य एकः नेपालदेशीयः जनः मारितः, तां घटनाम् अवलोक्यैव अयं पदक्षेपः उत्थापितः।
मन्त्रालयेन एतदपि प्रतिपादितं यत् सशस्त्रबलानि प्रतिबद्धतां सम्पूरयन्ति यत् अस्मै आतङ्क्याक्रमणाय उत्तरदायिनः जनाः उत्तरयुताः भवेयुरिति।
अपुष्टस्रोतानां अनुसारं हाफिजसईदस्य परिवारस्य प्रायः १४ सदस्याः सहितं न्यूनातिन्यूनं १२० आतङ्कवादिनः मृताः।
भारतीय-सेनया प्रतिपादितं यत् पाकिस्तानेन पुंछ राजौरी क्षेत्रस्य भीमबेर-गली-इत्यस्मिन् स्थले प्रक्षेपयुतं गोलिकाप्रहारं कृत्वा पुनरेकदा सङ्घर्ष-विराम-सन्धिः उल्लङ्ङ्घितः। सामाजिकसन्देशपटले भारतीयसेना प्रावोचत् यत् तया उचितविधिना प्रत्युत्तरं प्रदीयते।
एतानि घटनानि अवलोक्य भारतीय वायुसेना स्वस्य अग्निशक्तिं वायुसैन्यबलम् च प्रदर्शितवती। भारतीयवायुसेना मई सप्तम दिवसे आरभ्य राजस्थाने पाकिस्तानेन सह अन्ताराष्ट्रिय-सीम्नि द्विदिवसात्मकं बृहत्तमं सैन्याभ्यासं अकरोत् । भारतीय-वायुसेनया अयम् अभ्यासः पूर्वनियोजितः नियमितः प्रशिक्षणाभ्यासः सूचितः। एतस्मिन् अभ्यासे राफेल-सुखोई-30-जगुआर-तादृशानि योद्धृविमानानि सम्मिलितानि अभवन् । भारतीय-विमानपत्तनप्राधिकरणद्वारा प्रसारितं नोटम इत्यनुसारम् यावत् अभ्यासोऽयम् क्रियमाणः आसीत्, यस्मिन् वायुक्षेत्रं प्रतिबन्धितम् आसीत्।
गतदिनेषु एतेषां प्रहारानाम् पूर्वानुमानं कुर्वन् भारतसर्वकारः नागरिक-सुरक्षोद्धारम् योजनाकृतः।
केंद्रीय-गृह-सचिवः गोविंद-मोहनः दृश्य-सम्वादमाध्यमेन राज्याणां केंद्र-शासित प्रदेशानां च मुख्य-सचिवैः सह उपवेशनम् अकरोत् । उपवेशने नागरिक-सुरक्षायाः महानिदेशकैः राष्ट्रीय-आपद्-प्रतिक्रियाबलेन च सह राष्ट्रीय राजधान्यां अन्ये वरिष्ठाधिकारिणः भागमभजन् । केंद्रं राज्यसर्वकारान् देशे नागरिक-रक्षा-सज्जानां मूल्यांकनं कर्तुं मॉक ड्रिल इत्यस्य आयोजनम अकथयत् । अस्य अभ्यासस्य योजना ग्रामीणस्तरं यावत् विनिर्माता अस्ति । अस्माकं संवाददाता संसूचितवान् यत् नागरिक-रक्षाभ्यासस्य उद्देश्यं विभिन्न-नागरिक-रक्षोपायानां परिचालनस्य प्रभावात्मकतायाः, समन्वयनस्य आकलनं करणीयमस्ति ।
पहलगाम-आतङ्क्याक्रमणस्य अनन्तरं उच्चस्तरीय-समागमस्य श्रृङ्खलायां राष्ट्रिय-सुरक्षा-परामर्शदः अजीत डोभालः नवदिल्लीनगरे स्वनिवासस्थाने प्रधानमन्त्रिणा श्रीनरेन्द्रमोदिना सह मिलितवान्। पूर्वे रक्षासचिवः राजेशकुमारसिंहः प्रधानमन्त्रिणा सह सम्पर्क कृतवान् आसीत् । ततः पूर्वं वायुसेनाप्रमुखः एयर्-चीफ्-मार्शल अमरप्रीतसिंहः अपि श्रीमोदिना सह समागमं कृतवान्। अवधेयमस्ति यत् इतः पूर्वं नौसेना प्रमुखेन एडमिरल दिनेश-के-त्रिपाठी इत्यनेन अथ सेना प्रमुखेन जनरल-उपेन्द्र-द्विवेदिना सह पृथक्तया संगोष्ठी जातासीत् ।
ऑपरेशन-सिन्दूर-इत्येतस्मिन् विषये कालान्तरे विस्तृतपूर्वकसूचना विस्तृतसूचना उपलब्धा भविष्यति।











