विकसितकृषिअभियानम्

अस्य मासस्य एकोन-त्रिंश्यां समस्ते देशे विकसित कृषि-संकल्प-अभियानम् आरप्स्यते। अभियानमेतद् जून-द्वादशीं यावत् चलिष्यति। एतस्य अभियानस्य उद्देश्यः कृषकेषु आधुनिक-प्रौद्योगिकीनां नवीन-बीजानां च प्रकाराणां विषये जागरूकता-समुत्पादनं वर्तते । नव दिल्ल्याम् एकस्मिन् वार्ताहर-सम्मेलने वार्ताहसन् सम्बोधयन् केन्द्रीय-कृषि-मन्त्री शिवराज सिंह चौहानः प्रत्यपादयत् यत् एतद् अभियानं समस्त-देशस्य त्रयो-विंशत्युत्तर-सप्त-शत-मितेषु जनपदेषु चलिष्यति। अथ चैतद् अभियानम् प्रायः सार्धंक-कोटि-मितान् कृषकान् यावत् प्राप्स्यति। अमुना भणितं यत् वैज्ञानिकानां एकः समूहः प्रायः पञ्च षष्टि-सहस्र-ग्रामाणां यात्रां कृत्वा कृषकान् व्यावहारिकं वैज्ञानिकं च कृषि-कर्म-विधानं प्रशिक्षयिष्यति।
श्रीचौहानः न्यगदत् यत् कृषिः भारतीय अर्थव्यवस्थायाः मूलस्तम्भः वर्तते, यद्धि भारतस्य प्रायः अर्ध-जन-सङ्ख्यायै आजीविकामपि प्रददाति । देशस्य खाद्य-सुरक्षायाः आधारोSपि भवति। अनेन प्रोक्तं यत् प्रधानमन्त्रिणः नरेन्द्र मोदिनः नेतृत्वे विकसित-भारतस्य निर्माणार्थम् एकं परिवर्तनकरम् अभियानं प्रचाल्यते। एतस्य अभियानस्य अन्तर्गतं उत वा अभियानस्य केन्द्रे “विकसित कृषिः, समृद्ध-कृषकाः” इति लक्ष्यमस्ति। श्रीचौहानेन एतस्मिन् विषयेऽपि प्रकाशः प्रक्षिप्तः यत् भारतस्य लक्ष्यं विश्वस्य खाद्य-भाण्डागारं भवितुम् अस्ति। सः प्राकृतिक-जैविक-कृषेः महत्त्वं अपि प्रकाशितवान्, कृषि-विविधीकरणं, पर्यावरण-प्रबन्धनं च सामूहिक-दायित्वं आह्वयत् । “पारम्परिक-अभ्यासैः सह एकीकृतं विज्ञान-आधारितं परिवर्तनम् अस्माकं अग्रे गन्तुं मार्गः अस्ति” इति सः अपि अवदत् ।