जो-बिडेन कर्करोगः

प्राक्तनः अमेरिकीयो राष्ट्रपतिः जो बिडेनः प्रो-स्टेट कैंसर इत्याख्येन कर्क-रोगेण ग्रस्तः सूच्यते। तस्य कार्यालयेन एकस्मिन् वक्तव्ये प्रोक्तं यत् श्री-बिडेनः आक्रामक-कर्क-रोगेण निपीडितो वर्तते। प्रधानमन्त्रिणा नरेन्द्र-मोदिना जो बिडेनस्य स्वास्थ्य-विषये चिंता व्यक्तीकृतास्ति । सामाजिक सञ्जालीये सन्देशे श्रीमोदी श्रीबिडेनस्य स्वास्थ्य-लाभाय कामनां कृतवान्। अमुना लिखितं यत् तस्य संवेदनाः प्राक्तन-अमेरिकीय-राष्ट्रपतेः पत्या डॉ. जिल बिडेन-वर्यया, तस्य परिवारेण च साकमस्ति । गतसप्ताहे राष्ट्रपतिः जो बाइडेन् मूत्रस्य लक्षणं वर्धमानं अनुभवित्वा प्रोस्टेट् गांठस्य नूतननिष्कर्षाय दृष्टः। शुक्रवासरे तस्य प्रोस्टेट्-कर्क्कटरोगः इति निदानं जातम्, यस्य लक्षणं ग्लीसन-अङ्कः ९ (श्रेणी-समूहः) अस्थिपर्यन्तं मेटास्टेसिसः अभवत् । यद्यपि एतत् रोगस्य अधिकं आक्रामकं रूपं प्रतिनिधियति तथापि कर्करोगः हार्मोन-संवेदनशीलः इति दृश्यते, येन प्रभावी प्रबन्धनं भवति” इति वक्तव्ये पठितम् ।
इदानीं अमेरिकीराष्ट्रपतिः बराक ओबामा इत्यनेन उक्तं यत् सः तस्य पत्नी मिशेल् ओबामा च बाइडेन् इत्यस्य “शीघ्रं पूर्णतया च स्वस्थतां” प्रार्थयन्ति।