देशस्य पञ्चविंशत्यधिकैक-शततोप्यधिकाः शीर्ष-प्रमुखा वाणिज्य-नेतारः तुर्की-अजरबैजान-देशयोः सह यात्रां पर्यटनं च समेत्य सर्वविधव्यापार-बहिष्कारस्य निर्णयं कृतवन्तः। विगत सप्ताहे नवदिल्ल्याम् अखिल-भारतीय-व्यापार-परिसङ्घन आहूते राष्ट्रिय-व्यापारनेतृ-सम्मेलने एषः निर्णयः स्वीकृतः। एकस्मिन् वक्तव्ये सी.ए.आई.टी इत्यनेन उक्तं यत्, यदा भारतं संवेदनशीलं गम्भीरं च राष्ट्रिय-सुरक्षास्थितिं सम्मुखीकरोति स्म तस्मिन् समये तुर्की-अजरबैजान-देशाभ्यां पाकिस्तानस्य पूर्णसमर्थनं कृतम्। सद्यः एव कृतस्य वृत्तेः प्रतिक्रियारूपेण एषः संकल्पः स्वीकृतः। तत्र उक्तं यत्, भारतीय-व्यापार-समुदायः एतत् विश्वासघातरूपेण पश्यति, विशेषतः पूर्वं संकटस्थितौ भारतेन द्वयोः देशयोः कृते मानवीयं कूटनीतिकं च समर्थनं प्रदत्तम्। सभां सम्बोधयन् सी० ऍ० आइ० टी० इत्यस्य महासचिवः संसद-सदस्यः च प्रवीणखण्डेलवालः अवदत् यत् दुर्भाग्यं यत् भारतस्य सद्भावनायाः, सहायतायाः, सामरिक-समर्थनस्य च लाभं प्राप्तवन्तौ तुर्की-अजरबैजान-देशौ अधुना पाकिस्तानस्य साहाय्यं कृतवन्तौ । सः अवदत् यत् तयोः स्थितिः न केवलं भारतस्य सार्वभौमत्वं राष्ट्रहितं च आहतं करोति अपितु चत्वारिंशदधिकैक-शतकोटि-भारतीयानां भावनानां प्रत्यक्षतया अपमानं करोति।











