सिन्दूराभियाने भारतस्य कूटनीतिक-प्रयासान् पाकिस्तान-प्रायोजितातङ्कवादं च उपस्थातुं जेडीयू इति दलस्य सांसदः सञ्जय-कुमार- झा इत्येतस्य नेतृत्वे एक बहुदलीयं शिष्टमण्डलम् एकविन्शति दिनाङ्के पञ्च-देशानां यात्राय प्रिस्थितम्। एतत् शिष्टमण्डलम् इण्डोनेशिया मलेशिया- कोरिया-गणराज्य-जापान-सिंगापुर-राष्ट्राणां यात्रां करिष्यति। येन आतङ्कवादस्य सर्वविध-निरसनाय देशस्य दृढ-दृष्टिकोणं प्रदर्शयिष्यते। प्रस्थानात् पूर्वं नवदिल्ल्यां श्रीमता सञ्जय-कुमार-झा इत्यनेन उक्तं यत् आतङ्कवादः पाकिस्तानस्य नीतेः एको भागो वर्तते । अथ च ते विश्वं बोधयिष्यन्ति यत् पाकिस्तानं कथं आतङ्कवादं प्रायोजयति।
एकम् अन्यम् प्रतिनिधिमण्डलम् अपि शिवसेना-सांसदः श्रीकान्त-शिन्दे इत्येतस्य नेतृत्वे संयुक्त अरब अमीरात-लाइबेरिया-डेमोक्रेटिक रिपब्लिक ऑफ कांगो सिएरा लियोन-राष्ट्राणाम् च यात्राय प्रिस्थितम्।
अस्य पूर्वे , विदेश-सचिवः विक्रम-मिस्री सर्व-दलीय-संसदः सदस्येभ्यः सूचनाम् अयच्छत्। ध्येयं यत् सिन्दूराभियान-विषये कूटनीतिक-दृष्ट्या भारतेन विदेशं प्रति सर्वदलीय प्रतिनिधयः प्रेष्यन्ते। सर्वकारेण ऑपरेशन-सिन्दूर-प्रक्रमे पाकिस्तान-प्रायोजित आतङ्कवादं विरुध्य भारतस्य नीतिं विचारं च विभिन्न देशेषु प्रचारयितुं सर्व-दलीय-प्रतिनिधिमण्डलं प्रेषयिष्यते इति घोषणा भारतेन पूर्वमेव कृतास्ति। एतादृशं सप्तप्रतिनिधि-मण्डलं संयुक्तराष्ट्र-सुरक्षा-परिषदः सदस्यसमेतं प्रमुख सहभागि देशानां भ्रमणं करिष्यति। अवधेयं यत् एकोनषष्टि-सदस्य-युतं संसदीय प्रतिनिधि-मण्डलं मईमासस्य त्रयोविंशतिदिनाङ्कात् जूनमासस्य प्रथमदिनाङ्क यावत् द्वाविंशति-देशानां भ्रमणं करिष्यति। प्रतिनिधिमण्डलम् अमेरिका-ब्रिटेन फ्रांस-जर्मनी-जापान-सऊदी अरब-ब्राजील-सहितेषु नैकेषु देशेषु भ्रमणं करिष्यति। मण्डलस्य नेतृत्वकर्तृषु सांसदेषु शशिथरूरः, रविशंकर-प्रसादः, संजयझाः, बैजयंत-पाण्डा, कनिमोझी करूणानिधिः, सुप्रिया सुले, श्रीकान्त-सिन्दे च सम्मिलिताः सन्ति। प्रतिनिधिमण्डलेन आतङ्कवादं विरुध्य भारतस्य एकीकृतप्रवृतिः शून्य-सहनशीलता-भावस्य च नीतिः तत्र प्रसारयिष्यते।











