तालानां कर्णजपः (बाल कथा )

आसीत् मोरीनामा बालिका। यस्याः नेत्रे बभ्रुवर्णे। सा पितृभ्यां सः नील सरोवर-निकटे नारिकेल-वने अवसत्।
प्रत्यहं प्रातः काले, सा मस्तके विशालं रिक्तं करण्डं धृत्वा सरोवरतटम् अगच्चत्।
तस्याः माता वस्त्र-प्रक्षालनार्थं , वस्त्राणि गृहीत्वा तां अन्वसरत्।
पिता विशालं जालम् आनयत्। माता सरोवर्तटस्य प्रस्तरे वस्त्राणि प्रक्षालयति स्म।
पिता मत्स्यान् गृह्णन्ति स्म। सः यदा जालं तटे अकर्षत् , तदा सर्वे मत्स्यान् सङ्गृह्य विशाल-करण्डे अस्थापयन्।
कदाचित् कोपि कच्छपः जाले बन्धः चेत् , मोरी त्वरया तम् अमोचयत्।
एकस्मिन् सुप्रकाशिते प्रभाते , पित्रा सह् मत्स्यग्रहण-काले मोरी अवदत् , यदि वयं बहून् मत्स्यान् गृह्णीम: कदाचित् एकस्मिन् दिवसे सरोवरे मत्स्याः न स्थास्यन्ति एव। तस्याः माता हसन्ती तां पाठशालां प्रैषयत्। वृक्षछायायां मोर्याः माता अशान्त्निद्रायां लीना अभवत्।
सा स्वप्ने कमपि सरोवरम् अपश्यत्। तत्र मत्स्याः न आसन्। वायुः च तालवृक्षाणां पर्णानां कर्णेषु मन्दं मन्दं वदति स्म -।
जलानि भूमयः च सर्वदा तव परिवारम् अपोषयन्, किन्तु त्वयापि तेषां प्रत्युपकाराय चिन्ता कर्तव्या इति।
सा अश्रुपूर्णनेत्रा जागरिता। यतः सा न जानाति स्म, यत् पर्याप्तेन मत्स्यविक्रयेण विना कथं मोरी वर्धनीया इति।
अपराह्ने चिरं यावत् उपविष्ठा सा नारिकेलपत्रै कटान् अवयत्। स्वप्नाविषये च अचिन्तयत्।
तस्या रात्रौ मोरी पित्रोः कर्णजपम् अशृणोत्। तस्यां रात्रौ चिरं यावत् तैल्दीपः ज्वलति स्म। अपरस्मिन् दिने प्रभाते पिता तस्यै लघुतर्करण्डं अददात्।
सर्वान् मत्स्यान् कथम् अस्मिन् लघु करण्डे गृह्णीमः ? मोरी अपृछत्। वयं तावतः ग्रहीष्यामः यावन्तः मत्स्याः करण्डे स्थान प्रापुयुः इति सह् अवदत्। मोरी चकित अभवत्। पाठशालायाः प्रत्यागत्य यदा नरिकेलैः फ़ेनकम् तैलं च कुर्वन्तीं मातरं दृष्टवती तदा सा आनन्दातिशयेन उत्तेजिता अभवत्।
अधिकानि नारिकेलफ़लानि प्राप्तुं सा वेगेन नारिकेलवृक्षम् आरूढा। किन्तु माता अवदत् ‘अधिकानि फलानि मा उत्पाटय ।
यावन्ति फलानि वृक्षः ददाति तावन्ति एव उपयुञ्ज्मः । ‘ततः पिता अवदत् ‘केवलं भूमौ पतितानि नारिकेलानि कार्यार्थ ग्रहीष्यामः ।
पश्य, फेनकं निर्मितं यस्य अन्तर्भागे मल्लिकापुष्पमेकम् अस्ति। तस्मात् दिनाद् आरभ्य सम्पूर्णः परिवारः तालपत्रैः संमार्जनीनिर्माणं तथैव च नारिकेलतन्तुभिः कटानां निर्माणं च अकरोत्। ते फेनकानि, तैलं, अल्पान् मत्स्यान् च विक्रेतुं विपणीम् अनयन् ।
यदा मोरी वयस्का जाता तदा मौर्ये नारिकेलखर्परैः कच्छपाकृतीनां निर्माणम् अतीव अरोचत। तादृशीम् एकां कच्छपाकृतिं सा स्वकण्ठे अधारयत् ।