विश्वपर्यावरणदिवस – ५ जून

प्रधानमन्त्री नरेन्द्रमोदी विगत पञ्चम दिनाङ्के विश्वपर्यावरणदिवसावसरे नवदेहल्याः भगवान् महावीरवनस्थली-उद्द्याने ‘एक् वृक्ष मा के नाम्’ इति उपक्रमस्य अन्तर्गतं विशेषवृक्षारोपणस्य अभियानस्य नेतृत्वं अकरोत् ।अभियानमिदं ‘अरावली-हरित-भित्ति-परियोजनायाः’ महत्त्वपूर्ण अंगं आसीत् , यस्य उद्देश्यं अरावली- क्षेत्रे पुनर्वनरोपणं वर्तते । श्रीमोदी पर्यावरणसंरक्षणार्थ, वनीकरणार्थं च भारतस्य प्रतिबद्धतायाः प्रतीकरूपेण वटवृक्षस्य रोपणं अकरोत् । सुस्थिर-नगरीय-गतिशीलतायाः प्रोत्साहनाय प्रधानमन्त्री दिल्ली-सर्वकारस्य स्वच्छ-परिवहन उपक्रमस्य अन्तर्गतं द्विशत विद्युत्-बस्-यानानां कृतेऽपि ध्वजारोहणं अकरोत् । एतेषां विद्युत्-बस्-यानानां परिचयस्य उद्देश्यं नव दिल्लां वायु-प्रदूषणं न्यूनीकर्तु, हरित-परिवहनं स्वीकर्तुं च वर्तेते।
अवधेयास्पदमस्ति वर्तते यत् जून मासस्य पञ्चम दिनाङ्के तावत् विश्वस्मिन् हि विश्वे “विश्व पर्यावरण दिवस” आचर्यते।