प्रधानमन्त्री नरेन्द्रमोदी तथा आस्ट्रेलियादेशस्य उपप्रधानमन्त्री रक्षामन्त्री च रिचर्ड मार्लेसः इत्येतौ मद्य भारत-ऑस्ट्रेलिया-देशयोः मध्ये व्यापक-सामरिकसहभागिताम् इतोप्यधिक सुदृढयितुं विचाराणां आदान-प्रदानं कृतवन्तौ। आस्ट्रेलियादेशस्य उपप्रधानमन्त्री अस्य मासस्य प्रथम सप्ताहे नवदिल्ल्यां प्रधानमन्त्रिणं मोदिनं मिलित्वा सीमपार आतङ्कवादविरुद्धे भारतस्य युद्धे स्वदेशस्य समर्थनं प्रदत्तवान्। उभौ नेतारौ रक्षा औद्योगिकसहकार्य, आपूर्तिशृङ्खलाः, महत्त्वपूर्णाः खनिजाः, नवीनाः उदयमानाः च प्रौद्योगिकीः इत्यादिषु प्रमुखक्षेत्रेषु सहकार्यं वर्धयितुं महत्त्वं रेखांकितवन्तौ । तौ पुनः पुष्टि कृतवन्तौ यत् स्थिरस्य, सुरक्षितस्य, समृद्धस्य च हिंद-प्रशांतयोः दृष्टिकोणयोः द्विपक्षीयसहकार्ययाणां मार्गदर्शनं निरन्तरं क्रियते। सद्यः एव सङ्घीयनिर्वाचने आस्ट्रेलियादेशस्य लेबर पार्टीति दलस्य ऐतिहासिकविजयाय प्रधानमन्त्री मोदी तस्य अभिनन्दनं कृतवान्। अस्य वर्षस्यान्ते भारते आयोक्ष्यमाणाय णे वार्षिकशिखरसम्मेलनाय सः आस्ट्रेलियादेशस्य प्रधानमन्त्रिणं एन्थोनी अल्बानी इत्यस्मै आमन्त्रितवान्।
रक्षामन्त्री राजनाथसिंहः सहैव ऑस्ट्रेलियायाः उप-प्रधानमन्त्री रक्षामन्त्री रिचर्ड-मार्लेसः इत्यनयोः मध्ये नवदिल्ल्यां उपवेशनं समभवत्। उपवेशनावधौ ऑस्ट्रेलियादेशस्य उप-प्रधानमन्त्रिणा आतङ्कवादं विरुध्य भारतेन सह ऐक्यं प्रकटितवान्। तेन सबलं प्रोक्तं यत् भारत-ऑस्ट्रेलियादेशौ रक्षा-समुद्रीसुरक्षाप्रकरणेषु च परस्परसहयोगिनौ स्तः। इतः पूर्व श्रीमार्लेसः दिल्ल्याः मानेकशॉ केन्द्रे गार्ड-ऑफ ऑनर-पुरस्कारेण सभाजितः। ऑस्ट्रेलियादेशस्य मन्त्रिणा दिल्ल्यां राष्ट्रिय-युद्ध-स्मारके पुष्पाञ्जलिरपि समर्पितः। रक्षामन्त्रिणा राजनाथसिंहेन स्वीयः ऑस्ट्रेलिया-समकक्षीयः देशस्य समक्षे पश्चिमक्षेत्रेषु समुत्पन्नसङ्कटानां विषये संसूचितः ।











