नवदिल्ल्यां विश्ववायुपरिवहनसङ्घस्य शिखरसम्मेलनं सम्बोधयन् , प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् अन्तरिक्ष-विमाननक्षेत्रे भारतं वैश्विक नेतृत्वेन उद्भवति। भारतं अन्तरिक्ष-विमाननक्षेत्रे वैश्विकनेतृत्वेन उद्भवति। मोदी नवदिल्ल्याः भारतमण्डपम् इत्यत्र अन्ताराष्ट्रीय वायुपरिवहन-सङ्घस्य-आई.ए.टी.ए. इत्यस्य ८१ एकाशीतितमे वार्षिकोत्सवे सामान्यसभायां सम्बोधितवान्। प्रधानमन्त्रिणा वैश्विकविमानव्यवस्थायां विशालविपणेन सह नीतिनेतृत्वस्य, नवीनतायाः, समावेशीवृद्धेः च प्रतीकत्वेन भारतस्य भूमिकायाः उपरि बलं दत्तम्।
अद्य भारतं पूर्वस्मात् अपि अधिकं आत्मविश्वासेन आपूरितम् अस्ति। मोदी अवदत् यत् एताभिः विशेषताभिः भारतं स्वस्य विमाननक्षेत्रं अभूतपूर्वा ऊर्ध्वतां प्राप्तुं सन्नद्धं अस्ति। अस्मिन् शिखरसम्मेलने भवद्भिः कृताः चर्चाः वैश्विकविमानयानस्य कृते नूतना दिशां दास्यन्ति।











