प्रेषक: प्रवेशकुमारशुक्ल: लखनऊ
उत्तरप्रदेश-संस्कृत-संस्थानस्य निदेशकवर्यस्य श्री-विनय-श्रीवास्तवस्य प्रेरणया ऑनलाइन-प्रशिक्षण-पाठ्यक्रम-निर्माण-योजनायाः अन्तर्गतं सञ्चालितानां संस्कृत-भाषा-शिक्षणकक्षाणां परतया एकं प्रेरणा-सत्रम् आयोजितम्। अस्य सत्रस्य शुभारम्भः शिक्षार्थिना देवेशेन कृतं मङ्गलाचरणेन।
मुख्यवक्तृरूपेण मऊस्थस्य राजकीय-महाविद्यालयस्य सहायक-आचार्यः डॉ. अवनीन्द्रकुमार-पाण्डेयः अभाषत यत् “योगः चित्तवृत्तीनां निरोधकं साधनम् । योगः अस्माकं जीवनं स्वस्थं निरामयं च संतुलितं च करोति। अस्मदीयायाः योगपरम्परायाः विषये गर्वः अस्माभिः करणीयः।”
सः उक्तवान् यत् — “संस्कृत-भाषायाः योगशास्त्रस्य च अध्ययनं प्रचारः प्रसारश्च सर्वेषां दायित्वम् अस्ति। सुभाषितैः जगति विश्व-बन्धुत्वं पारस्परिक-सौहार्दं च जागरितुं शक्यते। अतः प्रतिदिनं एकस्य सुभाषितस्य पठनं चिंतनं च कर्तव्यम्। नियमितो योगाभ्यासः अपि आवश्यकः।
कार्यक्रमस्य प्रस्ताविकं वक्तव्यम् अतिथीनां परिचयम् , वाचिकम् आतिथ्यं च समन्वयकः दिव्य-रञ्जनः प्रास्तौत्। सत्रस्य सफलं सञ्चालनं प्रशिक्षकेण शशिकान्तेन कृतम्। तकनीकी-सञ्चालनं गणेश-दत्त-द्विवेदी समपादयत्। डॉ. सत्यप्रकाशमिश्रः सर्वेभ्यः कृतज्ञतां व्यक्तवान्। अस्मिन् अवसरे योजनाप्रभारी प्रधानसहायकः श्री-
भगवानसिंहचौहानः, प्रशिक्षणप्रमुखः सुधिष्ठकुमारमिश्रः, समन्वयकः धीरजमैठाणी, राधाशर्मा अन्यश्च मार्गदर्शकगणः उपस्थिताः आसन्।
शिक्षार्थिनां परतया राजेश्वरी-सिंहः सरस्वती-वन्दनां, चन्द्र-किशोरी संस्थान-गीतिकां, लक्ष्मी-गुप्ता स्वागतगीतं, मनटू-सिंहः शान्ति-मन्त्रं च प्रास्तुवन्।
कक्षा-शिक्षण-अनुभवेषु, योगाभ्यासेषु, सुभाषित-पाठने च अमय-मिश्रः, तृप्ति-पोरिया, शालिनी, शिवानी, नारायणी-गोरे, साईशा-गोरे च सहभागित्वम् उल्लिखितवन्तः।
समायोजक-प्रशिक्षकैः रजनीश-तिवारी, पंकज-शर्मा, लल्लन-बाबू-मौर्य इत्येभिः सहिताः समस्त-शिक्षार्थिनः, समाजसेविनः संस्कृतानुरागिणः विद्वांसः च उपस्थिता: आसन्। एवं सत्रमिदं “विश्व-कल्याणस्य भावनया सम्पन्नम्।











