वार्ताहर:-कुलदीपमैन्दोला।
उत्तराखंड। अन्ताष्ट्रिययोगदिवसस्य अवसरे ब्रह्मलीनानन्तश्रीविभूषित- जगद्गुरुशंकराचार्यज्योतिर्पीठाधीश्वरमाधवाश्रम- आध्यात्मयोगसंस्थानस्य आयोजने एकादशी अन्तर्जालव्याख्यानमाला सम्यक् प्रकारेण सम्पन्ना। अस्मिन् कार्यक्रमे “मानवजीवने योगस्य महत्वम्” विषयेस्मिन् विद्वद्भिः विस्तृता चर्चा कृता।
कार्यक्रमस्य मुख्यातिथिरूपेण जगद्गुरु: देवादित्यानन्दसरस्वतीमहाराजः योगविषये चर्चां कुर्वन् उक्तवान् यत् — “कर्मैव योगः” इति। अतः कर्मापि योगवत् करणीयम्। विशिष्टातिथिः १००८ महामण्डलेश्वरः स्वामीरामकिशोरमहाराजः उक्तवान् यत् माधवाश्रममहाराजः योगिवद् जीवनं अयापयत्। अद्य तेषां जीवनस्य अनुकरणम् अत्यावश्यकम् अस्ति।
कार्यक्रमस्य संरक्षकः स्वामी शिवानन्दजी महाराजः योगस्य विविधविधिपरिप्रेक्ष्ये प्रकाशं दत्तवान्। सारस्वतातिथिः अभयचैतन्यमहाराजः उक्तवान् — “योगः केवलं शारीरिकव्यायामः न, अपि तु सम्पूर्णं जीवनमेव योगः” इति। अपरः सारस्वतातिथिः ब्रह्मचारी वसिष्ठमहाराजः योगस्य जीवनम् अध्यारोपणस्य प्रयासे बलं दत्तवान्।
कल्याणस्वरूपमहाराजः अपि योगविषये विचारप्रदर्शनं कृतवान्। केशवस्वरूपमहाराजः उक्तवान् — “कुरु योगं भव निरोगः” इत्येतत् सूत्रम् अनुसर्तव्यम्।
ततः कार्यक्रमस्य मुख्यवक्तृरूपेण आमन्त्रितः डॉ. आदित्यसुतारः योगं, भारतीयदर्शनं च, योगस्य विविधविषये विस्तरेण प्रकाशं दत्तवान्।
कार्यक्रमे समापनसमये प्रो. जगदीशसेमवालः उक्तवान् यत् योगः भारतस्य मौलिकविधा अस्ति, च सनातनधर्मस्य मूलं योग एव।
कार्यक्रमस्य संस्थानस्य च राष्ट्रीयाध्यक्षः प्रो. महेशप्रसादसिलोड़ी सारगर्भितया योगं योगसूत्रं च जीवनस्य सूत्ररूपेण व्याख्यातवान्। तेन उक्तम् यत् — यदि माधवाश्रममहाराजस्य जीवनं यावत् संघर्षमयं तावत् अस्ति, तर्हि सर्वे तेषां जीवनं यदि अनुसरन्ति चेत्, वास्तविककर्मयोगः सिध्यति।
कार्यक्रमस्य संचालनं डॉ. आनन्दमोहनजोशीमहोदयेन कृतम्, अतिथीनां स्वागतं डॉ. लीलाधरभट्टारायणमहाशयेन च कृतम्। समापनकाले डॉ. आलोकसेमवालः सर्वेषाम् अतिथीनां धन्यवादं कृत्वा शान्तिपाठेन कार्यक्रमस्य विधिपूर्वकं समापनं कृतम्।











