फास्टटैग – त्रिसहस्ररूप्यकाणां वार्षिकपास्

प्रशासनम् अस्मिन् वर्षे अगस्तमासस्य पञ्चदश दिनाङ्कादारभ्य त्रिसहस्ररूप्यकाणां मूल्यात्मकस्य फास्टटैग आधारितं वार्षिकपास् अनुमति प्रपत्रं इति प्रवर्तयिष्यति। एतेन प्रपत्रेण देशे सर्वेषु राष्ट्रियराजमार्गेषु निर्बाध्यतया न्यून-मूल्यात्मिका च यात्रा सम्भविष्यति। इदं वार्षिकं पास प्रपत्रम् आरम्भ-दिनात् एकवर्षं वा द्विशतं यात्रायाः कृते वैधं भविष्यति। मार्गपरिवहनराजमार्गमन्त्री नितिनगडकरी इत्यनेन सोशल मीडिया सन्देशे एषा सूचनां प्रदत्ता।