विदेशमन्त्री- श्री जयशङ्करस्य अमेरिका यात्रा

विदेशमन्त्री सुब्रह्मण्यमजयशङ्करः आतङ्कवादविषये भारतस्य समर्थनं न करणाय पाश्चात्त्यदेशानामुपरि प्रश्नं कृतवान्, सः आत‌ङ्कवादस्य निवारणे अधिकाधिक एकीकृतवैश्विकसहकार्यस्य अवश्यकतायाः उपरि बलं दत्तवान्। अमेरिकादेशस्य वाशिङ्गटननगरे वार्ताहराणां प्रन्नानां प्रतिक्रियारूपेण
डॉ. जयशङ्करः अवदत् यत् प्रायः एते देशाः आतङ्कवादेन पीडितानां देशानाम् कृते समर्थनं न दास्यन्ति यावत् ते स्वयमेव तस्य दुष्प्रभावग्रस्ताः न भवन्ति ।
सः अवदत् यत् अस्मिन् अवसरे भारतस्य स्थितिः अधिक दृढा , सिद्धान्तगता च अभवत्। डॉ. जयशङ्करः प्रोक्तवान् यत् सदैव भारतेन अन्यदेशेभ्यः आतङ्की-आक्रमणस्य विरुद्धमेव समर्थनं प्रदत्तम्।