केन्द्रीय-गृह-सहकारिता-मन्त्री अमितशाहः अस्य मासस्य पञ्चमे दिनाङ्के , गुजरातस्य आनन्द-नगरे देशस्य प्रथम-सहकारिता-विश्वविद्यालयलेन त्रिभुवन-सहकारी-विश्वविद्यालयस्य शिलान्यासं कृतवान्। कार्यक्रमावसरे श्रीशाहः अवदत् यत् गतचतुर्वर्षेषु सहकारमन्त्रालयेन षष्टिः नूतनानि उपक्रमाणि प्रारब्धानि। सहकारमन्त्रालयस्य स्थापना कोटिशः निर्धनानां ग्रामीणानाञ्च जीवने आशां जनयितुं अभवदिति।
एतदतिरिच्य, अयं विश्वविद्यालयः न केवलं सहकारिणः कर्मचारिणः, अपितु त्रिभुवनभाईति सदृशाः समर्पिताः सहकारनेतारः अपि सज्जीकर्तुं शक्नोति, ये सहकारिक्षेत्रस्य अध्ययनं कृत्वा नेतृत्वं च करिष्यन्ति इति श्रीशाह अवदत्।कार्यक्रमावधौ, श्रीशाहः सहकार-मन्त्रालयस्य तथा एन्. सी. ई. आर्. टी. इत्यस्य सहयोगेन विद्यालयीय छात्रेभ्यः निर्मितस्य सहकारस्य विषये विशेषस्य द्विभाषीयस्य माड्यूल् इत्यस्य अनावरणमप्यकरोत्।











