उत्तराखण्ड-मानसरोवर-यात्रा

उत्तराखण्ड्-राज्ये मुख्यमन्त्री पुष्कर सिङ्घ धामी इत्येषः विगत पञ्चम दिनाङ्के चम्पावत्-मण्डलस्य टनकपुर-नगरात् कैलास्-मानसरोवर्-यात्रायाः प्रथमसमूहं ध्वजप्रदर्शनपूर्वकं प्रेषितवान्। देहल्याः प्रस्थितः समूहः जुलाइ मासस्य षष्ठं दिनाङ्के साय‌ङ्काले टनकपुरमिति प्रथमस्थानं प्राप्नोत् । अस्मिन् समूहे गुजरात- दिल्ली-राजस्थान – महाराष्ट्र- उत्तरप्रदेश- पश्चिमबङ्गाल- तेलङ्गाना- छत्तीसगढादिभ्यः प्रायः पञ्चाशत् तीर्थयात्रिणः सन्ति। अवसरेऽस्मिन् मुख्यमन्त्री अवदत् यत् तीर्थयात्रिकाणां सुरक्षायै सौख्याय च सर्वाः व्यवस्थाः कृताः सन्तीति ।
कैलास्-मानसरोवर्-यात्रायाः चतुर्थः समूहः पञ्चम् दिनाङ्के सिक्किम्-राज्यस्य शेरथाङ्ग्-नगरं पारिस्थित्यानुकूलनाय प्राप्नोत् । अयं समूहः अस्य मासस्य द्वितीय दिनाङ्के देहल्याः प्रस्थित्वा तस्मिन् एव दिने बाग्डोग्रा-नगरं प्राप्नोत् । अस्मिन् दले चतस्रः यात्रिकाः, द्वौ सम्पर्काधिकारिणौ, आई. टि. बि. पि. इत्यस्य एकः अधिकारी, चत्वारः सहायक-कर्मचारिणश्व सन्ति।