पंचसप्तत्यधिकनवदशशततमवर्षस्य जून्-मासस्य पंचविशतिः दिनाङ्के यदा भारतीय संविधानस्य पतनम् अभवत् तदा किं अभवत् इति दिवसोऽयं स्मारयति। आपत्कालस्य आधिक्येन पीडितेभ्यः जनेभ्यः श्रद्धाञ्जलिं दातुम् अपि एषः दिवसः अस्ति। वर्धमानस्य राजनैतिक अशान्तेः, न्यायिक-विकासस्य च पृष्ठभूमौ आपत्कालस्य घोषणा कृता, येन शासकनेतृत्वस्य वैधतायाः प्रकम्पनं जातम्। आकाशवाण्याः मन् की बात् इत्यस्मिन् कार्यक्रमे स्वस्य विचारान् प्रकटयन् प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् आपत्कालः भारतीय-इतिहासस्य कृष्णतमः अध्यायः आसीत् इति।
संविधान-हत्या-दिवसस्यावसरे, सामाजिक-प्रसार माध्यमे श्री-सिङ्घः अवदत् यत् आपत्काले ये जनाः संघर्ष कृतवन्तः, कष्टान् च प्राप्तवन्तः, ते भारते लोकतन्त्रस्य जीवनाय महत्वपूर्ण योगदानं दत्तवन्तः इति। रक्षामंत्री राजनाथसिंहः उक्तवान् यत् आपत्कालस्य प्रवर्तनेन पञ्चाशत् वर्षपूर्व भारतीयजनतन्त्रस्य कण्ठरोधस्य कुत्सितः प्रयासः कृतः इति। केन्द्रीय-गृह-मन्त्री अमितशाहः अस्यावसरे नवदेहली-नगरे ‘द इमर्जेन्सी डायरीज़-इयर्स देट् फोर्ड अ लीडर्’ इति पुस्तकस्य विमोचनं कृतवान्। अस्मिन् पुस्तके अपात्कालमिति विरुध्य युद्धे, तत्कालीनस्य राष्ट्रिय-स्वयंसेवकसंघस्य प्रचारकयुवकत्वेन प्रधानमन्त्रिणः नरेन्द्रमोदीवर्यस्य सम्मोहकं चरित्रं निरूपितमस्ति। अस्मिन् पुस्तके श्रीमोदिनः लोकतन्त्रीय- आदर्शाणां कृते सङ्घर्षस्य, तेषां संरक्षणार्थं प्रचारार्थञ्च सः कथं जीवनं यावत् कार्यम् अकरोदिति च सजीवतया चित्रितम् अस्ति। “पञ्चविंशे जूनमासदिने ‘संविधानहत्यादिवसः’ इति रूपेण आचर्यमाणं स्मारयति यत् कदाचित् भारतस्य संविधानं पदाक्रान्तं जातम्।
एषः दिनः तेषां सर्वेषां जनानां प्रति अपि श्रद्धाञ्जलिः, ये अपातकालस्य अतिक्रौर्यकारणात् दुःखं अनुभूतवन्तः।
सः अपातकालः भारतीयइतिहासस्य अन्धकारपूर्णः कालः आसीत्।”











