वार्ताहर:- प्रवेशकुमारशुक्ल:, लखनऊ
उत्तरप्रदेशसंस्कृतसंस्थानेन संचालकविनयश्रीवास्तवस्य मार्गदर्शनेन चालितायाः ऑनलाइन-प्रशिक्षणपाठ्यक्रमनिर्माणयोजनायाः अन्तर्गतं सरलसंस्कृतवार्तालापवर्गे प्रेरणासत्रस्य आरम्भः सरस्वतीवन्दनया कृतः। समन्वयकः दिव्यारंजनमहोदयः स्वागतं परिचयं च अकरोत्, संचालनं प्रशिक्षकः रजनीकुमारः कृतवान्। स्वागतगीतं वैभवेन, संस्कृतगीतं गौरवेण, अनुभववक्तव्यं रुचितया पद्मिन्या च प्रस्तुतम्। मुख्यवक्ता डॉ. बृजेश-शास्त्री संस्कृतभाषायाः दिव्यता, रोजगारसन्दर्भे उपयोगितां च वर्णयन् अवदत् यत् संस्कृतं केवलं भाषा न, अपितु भारतीयसंस्कृतेः धरोहरः अपि अस्ति। तेन उक्तं यत् संस्कृतस्य उच्चारणं अपि रोगोपशमनक्षमं भवति, अनेके अवसराः अपि संस्कृते अन्तर्निहिताः सन्ति। सत्रे निदेशकविनयश्रीवास्तवः, पदाधिकारीगणः, प्रशिक्षणप्रमुखः, समन्वायकवर्गः च उपस्थिताः आसन्। प्रशिक्षिका दीपिकामिश्रा कार्यक्रमस्य संयोजनं कृतवती, शान्तिमन्त्रेण समापनः सम्पन्नः।











