उत्तरप्रदेश-संस्कृत-संस्थानस्य लखनऊद्वारा सञ्चालितायां ऑनलाइन-प्रशिक्षण-पाठ्यक्रम-निर्माण-योजनान्तर्गतं संस्कृतभाषा-शिक्षण-कक्षायां “आयुर्वेदस्य भाषा संस्कृतम्” इति विषयमधिकृत्य प्रेरणासत्रमायोजितम्।

आयुर्वेदमधिगन्तुं संस्कृतमावश्यकम् – प्रो० रामदास पी०वी०

वार्ताहर:- प्रवेशकुमारशुक्ल:, लखनऊ

मुख्यवक्तृरूपेण समागतः अमृता आयुर्वेद महाविद्यालयस्य सहायकाचार्यः प्रो० रामदास पी०वी० महोदयः “आयुर्वेदस्य भाषा संस्कृतम्” इतिविषयमधिकृत्य स्वकीयं विशिष्टं व्याख्यानं प्रदत्तवान् । सः संस्कृतभाषायाः विषये उक्तवान् यत् “भाष्यते प्रकाश्यते अनेन इति भाषा” अर्थात् यया विचारविनिमयः क्रियते सा भाषा इति। संस्कृतभाषा तादृशी भाषा अस्ति यया सर्वे विषयाः शास्त्राणि वा साहित्यानि वा प्रकाश्यते लोकाय तादृशी भवति संस्कृत भाषा। वयम् सर्वेऽपि अति सरलतया संस्कृते सम्भाषणं शिक्षितुं शक्नुमः। सस्कृते यदि वयं राम शब्दस्य रूपं जानीमः तर्हि वयं सर्वेषां अकारान्तपुँल्लिङ्गशब्दानां रूपाणि सरलतया ज्ञातुं शक्नुमः।
तदनन्तरं आयुर्वेदे संस्कृत भाषायाः का उपयोगिता विद्यते तदपि महोदयेन उक्तम्।
आयुर्वेदे यत् किमपि लिखितं तस्य सारं महोदयेन अति सरलतया उद्बोधितं यथा ब्राह्मे मूहर्ते यदि वयं उत्तिष्ठामः तर्हि अस्माकं स्मृतेः चेतनायाः च विकासः भवति, शारीरिक दोषाणां निवृत्तिः भवति।
तदनन्तरं त्रयाणां दोषाणां (वातपित्तकफश्च), सप्तधातुनां उल्लेखः आदि महोदयेन साररूपेन उदीरितम्।
प्रातः उत्थाय क्रमशः किं किं करणीयम् , अस्माकं भोजनं कीदृशं स्यात् सर्वेषामपि विषयाणां उल्लेखः विस्तरेण महोदयेन कृतः।
सः उक्तवान् – “यदि वयं संस्कृतभाषां सम्यक् पठिष्यामः तर्हि वयं आयुर्वेदशास्त्रस्य अध्ययनाय योग्याः भविष्यामः, यतो हि आयुर्वेदशास्त्रं संस्कृते एव लिखितम् वर्तते।”
प्रेरणासत्रस्यास्य सञ्चालनं उत्तरप्रदेश-संस्कृत-संस्थानस्य प्रशिक्षकेण दिवाकरमणित्रिपाठिना कृतम्।
समागतानामतिथीनां वाचिक-स्वागतं संस्थानवृत्तकथनञ्च समन्वयकैः श्रीमद्भिः दिव्यरञ्जनवर्यैः कृतम् । प्रशिक्षिकया आस्थाशुक्लया अतिथिपरिचयः कृतः। कार्यक्रमस्य शुभारम्भः शिक्षार्थिनः चन्द्रशेखर-त्रिपाठीमहोदयस्य वैदिक-मङ्गलाचरणेन अभवत्। लौकिक-मङ्गलाचरणञ्च सुजातया कृतम्।
संस्थानगीतिका हर्षितपन्तेन मधुर-कण्ठेन कृता।
कक्षागतानुभवकथनं कीर्तिप्रदीपौ च उक्तवन्तौ । एकलगीतं अनन्यया मधुरस्वरेण गीतम्।
धन्यवादज्ञापनं प्रशिक्षकेण अङ्कितकुमारेण च कृतम्। शान्तिमन्त्रः संध्यया च पठितः।
कार्यक्रकेऽस्मिन् अस्याः आभासिकयोजनायाः प्रभारी श्रीभगवानसिंहचौहानः, प्रशिक्षण-प्रमुखः श्री सुधिष्ठकुमारमिश्रः, योजनासमन्वयकाः श्रीधीरज-मैठाणी,दिव्यरञ्जन, सुश्री राधाशर्मा च, प्रशिक्षकः दिवाकरमणित्रिपाठी, आस्थाशुक्ला,अंकितकुमारः, समस्तशिक्षार्थिनः च उपस्थिताः आसन्।