भारतं एड्-फेल्काइ-वॉक्स् इति नामकं बहुचरणीयं मलेरियाटीकां विकासयति । अस्य टीकायाः उद्देश्यं मानवसंक्रमणात् रक्षणं प्रदातुं तथा च परजीविनः सञ्चार-जनित-सामुदायिक-संक्रमणस्य न्यूनीकरणं वर्तते। एड्-फेल्काइ-वॉक्स् इति प्रथमा स्वदेशीया पुनर्सयोजिता काइमेरिक मलेरिया टीका अस्ति यत् विशेषतया मलेरियायाः अत्यन्तं घातकरूपेण उत्तरदायी परजीवी प्लास्मोडियम, फाल्सिपेरम इत्यनयोः द्वयोः महत्त्वपूर्णयोः चरणयोः लक्ष्यं कर्तु विनिर्मितम् अस्ति। भारतीयचिकित्सासंशोधनपरिषद् सम्प्रति जैवप्रौद्योगिकी-विभागेन-राष्ट्रीयप्रतिरक्षाविज्ञानसंस्थायाः सहयोगरूपेण एतस्य मलेरियाटीकायाः विकास करोति।
एवं भारतं यत्र मलेरियाया अभूतपूर्वनिवारणाय सशक्तप्रयत्नं करोति, तत्र जिम्बाब्वे-देशे अद्यापि एषा व्याधिः महतीं चिन्तां जनयति। सन् २०२५ तमे वर्षे जिम्बाब्वे-देशे मलेरियारोगस्य ११५ प्रकोपाः दत्तांशे अभिलिखिताः, यत्र गतवर्षे केवलः एकः एव प्रकोपः दृष्टः आसीत्। अमेरिकायाः अनुदानराशेः अवरोधात् अनन्तरं, तस्मिन् राष्ट्रे मलेरियाया निवारणाय योजनानां प्रभाविता हानिं प्राप, इति तत्रस्थितविशेषज्ञैः उक्तम्।
एवं दृष्टे, भारतस्य सुसंयोजित-वैज्ञानिकप्रयत्नाः अनेन वैश्विकस्वास्थ्यस्य क्षेत्रे आदर्शरूपेण प्रतिपन्नाः भवन्ति।











