कर्तव्यभवनस्योद्घाटनम्

प्रधानमन्त्री श्रीनरेन्द्र मोदी नव दिल्ल्याः कर्तव्य-पथे नवनिर्मितं तृतीयं कर्तव्य-भवनम् उदघाटयत् । अस्मिन् उद्घाटनावसरे अमुना तृतीय-कर्तव्य-भवनस्य निर्माण-सम्बद्धा एका प्रदर्शनी चापि अवलोकिता, यस्यां प्रदर्शन्यां भवनस्य आधुनिक-विशेषताः प्रदर्शिताः सन्ति। अथ च पर्यावरणीय-स्थिरतां सुनिश्चितीकर्तुं निर्मित भवनस्य विविधेषु पक्षेषु प्रकाशः निक्षिप्तः अस्ति। अस्मिन् अवसरे केन्द्रीय-आवास-पौर-विकास-विषयाणां मन्त्री मनोहर लालः अपि उपस्थितः आसीत् । अत्रावसरे श्री मोदी संसद्भवन-परिषरे एकं पादप-रोपणमपि अकरोत्। एकस्मिन् संजालीये आलेखे श्री मोदी प्रत्यपादयत् यत् कर्तव्यभवनं सर्वकारस्य प्रतिबद्धतायाः, प्रजा-सेवायाः निरंतर-प्रयासानां च प्रतीकभूतम् अस्ति। एतत् तृतीयं कर्तव्य-भवनम्, सेंट्रल विस्टा इति संसद् भवनस्य एव व्यापक-परिवर्तनस्य एकम् अङ्गम् अस्ति। यस्य उद्देश्यः प्राशासनिक प्रक्रियाणां सु-व्यवस्थिततया परिपालन-पूर्वकं शासनस्य सक्षमतया प्रवर्तनं वर्तते।