कृत्रिम-विषाक्त-रसायनानां कारणात् सोयाबीन्-सस्यानां क्षतिः

केन्द्रीयकृषि-कृषक-कल्याण-मन्त्री शिवराजसिंह चौहानः विषाक्त-रसायनानां सिञ्चनेन सोयाबीन्-सस्यानां क्षतेः मूल्याङ्कनाय मध्यप्रदेशं गतवान्।
केन्द्रीयकृषि-कृषक- कल्याण-मन्त्रिणा शिवराज सिंह चौहानेन कृत्रिम-विषाक्त-रसायनानां कारणात् सोयाबीन्-सस्यानां क्षतिः अभवत् इति आक्षेपः प्राप्तः आसीत्। तदनन्तरं, श्री. चौहानः, रायसेन्-विदिशा-जनपदयोः प्रभावितक्षेत्राणि गत्वा क्षतेः निरीक्षणं कृतवान्। सः अवदत् यत् एतादृशानां कम्पनी-विशेषानां विरुद्धं अभियानम् आरभ्यते इति। श्री चौहानः अवदत् यत्, कृत्रिम कीटनाशकानां, उर्वरकानां, बीजानां च निर्माण संलग्नानां कम्पनी-विशेषानां विरुद्धं कठोराचरणम् भविष्यति इति। तस्य निर्देशानुसारं कार्यं कुर्वन्, भारतीय कृषि अनुसन्धान-परिषदः तत्क्षणमेव अन्वेषण-समितेः निर्माणम् अकरोत्। समितिः अद्य क्षेत्राणां भ्रमणं कृत्वा सस्यानां क्षतेः परिमाणम्य मूल्याङ्कनं करोति।