उपराष्ट्रपतिनिर्वाचनं

राष्ट्रीय-जनतांत्रिक-गठबंधन- एन्. डी. ए. इति पक्षतः उपराष्ट्रपतिपदस्य अभ्यर्थीभूतः सी.पी. राधाकृष्णन् वर्यः संसदभवने नामाङ्कनं पूरितवान्। उपराष्ट्रपतिनिर्वाचने नामाङ्कनकरणात् प्राक्, सी. पी. राधाकृष्णन् वर्यः संसदभवनस्य परिसरे प्रेरणास्थले पुष्पांजलिम् अर्पितवान्, यत्र भारतस्य प्रमुखनेतृणां स्वातन्त्र्य-योद्धृणाञ्च प्रतिकृतयः सन्ति। विपक्षस्य I.N.D.I.A ब्लाक् इति पक्षतः उपराष्ट्रपतिनिर्वाचने प्रत्याशीभूतः सर्वोच्च- न्यायालयस्य पूर्वन्यायाधीशः वी. सुदर्शन रेड्डी इत्येषः नामाङ्कनं पूरितवान्।
एतत् पूर्व सी. पी. राधाकृष्णन् इत्यस्य निर्वाचनाय सर्वाणि राजनैतिक-दलानि, विपक्षिणश्च समाहूताः। नवदेहल्यां एन्. डी. ए-संसदीय पक्षस्य सभायां, श्रीमोदी श्री राधाकृष्णन्-वर्य एन्. डी. ए-सांसदानां समक्ष परिचाययत्, तस्य दीर्घ सार्वजनिकजीवनं समुल्लेखयन् उक्तवान् यत् सः संसदः सदस्यत्वेन राज्यपालरूपेण च विभिन्न क्षमताधायीनि कार्याणि अकरोदिति । सभायाः अनन्तरं प्रसार-माध्यमैः सह वार्तालाप कुर्वन् संसदीयकार्यमन्त्री किरेन रिजिजुः अवदत् यत्, उपराष्ट्रपतिनः निर्वाचने सर्वाणि राजनैतिकदलानि, तेषां सर्वेऽपि सांसदाश्च सर्वसम्मत्या राधाकृष्णन्-वर्य समर्थयितुं प्रधानमन्त्री आवाहयदिति। राधाकृष्णन् वर्यः कस्मादपि विवादात् दूरस्थो भूत्वा सरलं जीवनं यापयदिति, उपराष्ट्रपति-पदस्य निर्वाचन सम्पूर्णदेशाय आनन्दस्य विषयो भविष्यतीति मन्त्री उक्तवान्। अग्रिममासस्य नवमे दिनाङ्के च उपराष्ट्रपतिनिर्वाचनं भविष्यति।