संस्कृतोन्नतये सम्भाषणशिविरंशम

वार्ताहरः – कुलदीप मैंदोला

उत्तराखण्डे हरिद्वारनगरस्य कनखलक्षेत्रे श्रीकृष्णकुञ्जे सर्वप्रियविहारनाम्नि स्थले संस्कृतभारती-उत्तराखण्डसंस्थया “संस्कृतं सर्वत्र – संस्कृतम् सर्वेषाम्” इत्यभियानान्तर्गतं सरलसंस्कृतसम्भाषणशिविरम् आयोजितम् अस्ति।इदं शिविरं 01 सितम्बर 2025 दिनाङ्कतः 10 सितम्बर् 2025 पर्यन्तम् प्रतिदिनं सायं चतुर्वादनतः पञ्चमवादनपर्यन्तं प्रचलति।
अस्य शिविरस्य उद्देश्यं यत् जनसामान्यानां मध्ये संस्कृतभाषायाः सरलरूपेण प्रचारप्रसारः करणीयम् इति। अनेके जनाः, छात्राः च, संस्कृतसम्भाषणकौशलम् अधिगन्तुं उत्साहेन सहभागित्वं कुर्वन्ति। अस्मिन् शिविरे दूरदूरात् आगत्य अनेके छात्राः संस्कृतभाषां अधीयन्ते स्म।
अस्य शिविरस्य मुख्यप्रशिक्षकः श्रीगरीबदासीयसंस्कृतमहाविद्यालयस्य आचार्यः केशवबलियानी महोदयः आसीत्। सः केवलं विद्यालये महाविद्यालये च अध्यापनकार्ये संलग्नः नास्ति, अपि तु दीर्घकालात् संस्कृतभारत्याः समर्पितकार्यकर्तृरूपेण समाजस्य सर्वेषां मध्ये संस्कृतभाषायाः प्रचारप्रसारकार्यं निरन्तरं करोति।
अस्मिन् प्रसंगे आचार्यः केशवबलियानी अवदत् –
“संस्कृतभाषा केवलं विद्यालयमहाविद्यालययोः पाठ्यविषयः न, अपि तु सर्वेषां जीवनस्य आलोकः अस्ति। संस्कृतस्य अध्ययनं समाजस्य उन्नत्यै, संस्कारसमृद्धये च आवश्यकम्। अद्यतनशिविरे दूरदूरात् आगत्य छात्राः संस्कृतं शिक्षन्ते, एषः उत्साहः संस्कृतभविष्यस्य आशासूचकः अस्ति।”
अस्य शिविरस्य संयोजकः आचार्यः जगतनयनबहुखण्डी वर्तते। शिविरे छात्राः उत्साहेन संस्कृतसंवादं कुर्वन्ति, संस्कृतं दैनिकजीवने प्रयोगाय प्रयत्नं च कृतवन्तः। इदं संस्कृतभारत्याः शिविरम् संस्कृतस्य पुनरुत्थानाय, सर्वसामान्यानां जीवनम् अधिकं संस्कृतमयम् करणाय महत्त्वपूर्णं योगदानं ददाति।