प्रधानमन्त्री नरेन्द्रमोदी अस्य मासस्य नवमे दिनाङ्के जलप्लावनस्य स्थितिं समीक्षितुं पञ्जाब-राज्यं गमिष्यति। सः व्यक्तिगतरूपेण स्थानीय-स्थित्याः मूल्याङ्कनं करिष्यति तथा च प्रभावितानां जनानां अधिकतमं साहाय्यं सुनिश्वेतुं वास्तविकतां अवगच्छति इति अपेक्ष्यते। पञ्जाब्-भाजपा-अध्यक्षः सुनील जाखर् इत्येषः सोशल मीडिया सन्देशे अस्याः यात्रायाः पुष्टिम् अकरोत्। सः अवदत् यत् प्रधानमन्त्री सङ्कटकालस्य विषये अतीव चिन्तितः अस्ति, घटनाक्रमस्य निरीक्षणं च निकटतया कुर्वन् अस्ति। श्रीजाखरः पुनरुक्तवान् यत् भारतसर्वकारः पञ्जाब राज्यस्य जनैः सह दृढतया स्थितः अस्ति
सूचना-प्रसारण-मन्त्री अश्विनी वैष्णवः अकथयत् यत् नेक्स्ट जनरेशन जी. एम्. टी. परिष्कारैः मध्यमवर्गस्य कुटुम्वेभ्यः महत्त्वपूर्ण बहुमूल्यं च उपहारं प्रधानमन्त्रिणा प्रदत्तम् इति। नवदिल्ल्यां वार्ताहरान् सम्बोधयन् श्रीवैष्णवः अवदत् यत्, जी. एस्. टी. – इत्यम्य संशोधित संस्करणे राष्ट्रस्य जी. डी. पी. इत्यस्मिन् प्रायः विंशति-लक्षकोटि-रूप्यकाणां वृद्धिः भविष्यति। येन देशस्य अर्थव्यवस्थायां महती वृद्धिः भविष्यति इति।











