वार्ताहर:-दीनदयाल शुक्लः
रामनगरम्। पीएनजी-राजकीय-स्नातकोत्तर महाविद्यालय-रामनगरम् इत्यस्य भौतिकीविभागस्य शोधच्छात्र: कृष्णपालनेगि: कुमाऊंविश्वविद्यालयः नैनीतालम् द्वारा पीएचडी शोधोपाधिना विभूषित:। गढवालहिमालयस्य उत्तरकाशीक्षेत्रे “मृत्तिकातः पर्यावरणपर्यन्तं रेडॉनजननस्य अध्ययनं तथा च परिवहनस्य अध्ययनम्” विषये शोधकार्यं शोधकर्त्ता कृष्णपालनेगी कृतवान् । गढ़वालविश्वविद्यालयस्य प्रोफेसर आरसीरमोला इत्यस्य (मेण्टरशिप) निरीक्षकत्वे राजकीयस्नातकोत्तर -महाविद्यालयरामनगरस्य भौतिकविज्ञानविभागस्य सहायकप्राध्यापक: डॉ. सुभाषचन्द्रः इत्यस्य कुशलमार्गदर्शने अनेन स्वीयं शोधकार्यं सम्पादितम्। कुमाऊँविश्वविद्यालये भौतिकशास्त्रविभागस्य प्रमुखसमन्वयकप्रोफेसर सूचीबिष्टवर्याणाम् आध्यक्ष्ये मौखिकपरीक्षा समायोजिता सम्पन्ना च। परीक्षायाः बाह्यपरीक्षकः दिल्लीविश्वविद्यालयस्य भौतिकशास्त्रविभागस्य प्राध्यापकः संजयकुमारचमोली आसीत् ।परीक्षकाः तेन कृतस्य शोधकार्यस्य प्रशंसाम् अकुर्वन्, तत् गुणात्मकं चेति उक्तवन्तः । अवसरेऽस्मिन् बाह्यपरीक्षकत्वेन प्राध्यापक: संजयकुमारचमोली, भौतिकीविभागाध्यक्ष: सूचीबिष्ट:, शोधनिर्देशक: डॉ. सुभाषचन्द्र:, डॉ. राकेशनेगी आदय: शोधकर्त्रे कृष्णपालाय वर्धापनानि शुभाकामनाश्च दत्तवन्त:। शोधोपाधिलब्धये रामनगरमहाविद्यालयस्य प्राचार्य: प्रो. एम. सी. पाण्डेवर्यः,मुख्यशास्ता प्रो.एस.एस.मौर्य:, भौतिकीविभागाध्यक्ष: डॉ. लवकुशकुमार:, प्रो.जे.एस. नेगी, डॉ. प्रमोदजोशी, डॉ. मूलचन्द्रशुक्ल:, डॉ. अनुरागश्रीवास्तव:, डॉ. पी.सी. पालीवाल:, डॉ. डी.एन.जोशी इत्यादय: शुभकामना: प्रायच्छन्। कृष्णपालनेगिना अस्य सफलतायाः श्रेयः स्वगुरुभ्यः स्वपरिवारजनेभ्यश्चच प्रदत्तम्।











