श्रवणसेवा तथा शोधसंस्थानं, कृष्णकृपाधाम हिन्दीसेवागोष्ठी च एतेषां संयुक्ततत्त्वावधानेन हिन्दीसमारोहः आयोजितः।

प्रेषक: – डॉ• अशोक गिरि

श्रवणसेवा तथा शोधसंस्थानं, कृष्णकृपाधाम हिन्दीसेवागोष्ठी च एतेषां संयुक्ततत्त्वावधानेन हिन्दीसमारोहः आयोजितः।
तत्र भारतभूषणवर्मा कैलाशचन्द्रहिन्दीसेवासम्मानं, डॉ० मीरा भारद्वाज मङ्गलोदेवीहिन्दीसेवासम्मानं, अपराजिता च वागीशाहिन्दीसेवासम्मानं प्राप्नुवन्। उच्चतरमाध्यमिकपरीक्षायाम् विद्यालयेऽस्मिन् हिन्दीभाषायाम् अतीवाधिकाङ्कलाभिनः छात्राः सम्मानपत्रैः उपहारैश्च सत्कृताः।
सर्वश्रेष्ठप्रचारवाक्यार्थं श्रीअरुणपाठकः सम्मानितः।
समारोहस्य शुभारम्भः मुख्यातिथिना, विशिष्टातिथिभिः, निर्णायकमण्डलेन संयोजकमण्डलेन च दीपप्रज्वलनं सरस्वत्याः चित्रे माल्यार्पणं च कृत्वा सम्पन्नः। शिविजयः मधुरकण्ठेन सरस्वतीवन्दनाम् अवाचयत्। वृन्दाशर्मा स्वागतसम्बोधनं कृतवती। दीनदयालदीक्षितः संस्थानस्य परिचयं उद्देश्यानि च व्याहरत्।
मुख्यातिथिः डॉ० आनन्दभारद्वाजः संस्कृतहिन्द्योः कविताशालां आयोजयितुम् उक्तवान्।
विशिष्टातिथिः डॉ० पङ्कजभारद्वाजः न्यूनातिन्यूनं हस्ताक्षराणि अपि हिन्दीभाषायां करणीयानि इति अभ्यधात्। डॉ० वाजश्रवार्यः उक्तवान्— अद्य हिन्दी सर्वदेशस्य सम्पर्कभाषा अस्ति। डॉ० पुष्पाराणीवर्मा हिन्दीभाषायाः सर्वासु विधासु लेखनं करणीयम् इति अवदत्। डॉ० एन०पी०सिंहः भाषायाः कृते व्याकरणस्य महत्वम् प्रकाशयत्। डॉ० मेनकात्रिपाठी प्रयोजनमूलकहिन्दीविकासे जोरं दत्त्वा उक्तवती— चिकित्साक्षेत्रे न्यायालयेषु च अद्यापि हिन्दीप्रचारः आवश्यकः।
डॉ० नरेशमोहनः राजभाषायाः हिन्दीरूपं अवगम्य प्रदर्शितवान्।
मुख्यसंयोजकः संचालकश्च डॉ० अशोकगिरिः उक्तवान्— हिन्दी केवलं मातृभाषा न, अपि तु अस्माकं संस्कृतेः अमूल्या धरोहर अस्ति। समारोहेषु कवितापाठः अपि जातः। तत्र हिन्दीभाषा, देशभक्ति, धार्मिक तथा सामाजिकविषयेषु रचनाः प्रस्तुताः।
अध्यक्षीयसम्बोधने स्वामीज्ञानानन्दमहाभागः भाषासाहित्ययोः क्षेत्रे गीता-काव्यस्य प्रासङ्गिकतां प्रकाश्य अवदत्— यथा सर्वेषां देशानां स्वभाषा अस्ति, तथैव भारतस्यापि स्वभाषा कुतः न स्यात् इति।
समारोहम् अन्ते कवितापाठेन सह डॉ० सुशीलत्यागी सर्वेषां प्रति आभारं व्यक्तवान्।
समारोहसंयोजने सुमितचौधरी, अनिरुद्धभाटी, प्रवीणपाण्डेय, बादलगिरिः, चान्दगिरिः, मुरलीनौटियालः च विशेषं योगदानं दत्तवन्तः।
समारोहेषु दीपकपंवारः, सोमदत्तगिरिः, पङ्कजगिरिः, कुणालगिरिः, विशालगिरिः, सङ्गीताराणा, अरविन्दमिश्रः, साधुरामपल्लवः, प्रमोदवर्मा, अभिनन्दनगुप्तः, अनिकेतगिरिः इत्यादयः उपस्थिताः आसन्।